रामायण (संशोधित पाठ) · अध्याय 2.83
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः
भरतः काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत् ॥
शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम्
शीघ्रम् आनय भद्रं ते तारयिष्यति वाहिनीम् ॥
जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन्
इत्य् एवम् अब्रवीद् भ्रात्रा शत्रुघ्नो ऽपि प्रचोदितः ॥
इति संवदतोर् एवम् अन्योन्यं नरसिंहयोः
आगम्य प्राञ्जलिः काले गुहो भरतम् अब्रवीत् ॥
कच्चित् सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम्
कच्चिच् च सह सैन्यस्य तव सर्वम् अनामयम् ॥
गुहस्य तत् तु वचनं श्रुत्वा स्नेहाद् उदीरितम्
रामस्यानुवशो वाक्यं भरतो ऽपीदम् अब्रवीत् ॥
सुखा नः शर्वरी राजन् पूजिताश् चापि ते वयम्
गङ्गां तु नौभिर् बह्वीभिर् दाशाः संतारयन्तु नः ॥
ततो गुहः संत्वरितः श्रुत्वा भरतशासनम्
प्रतिप्रविश्य नगरं तं ज्ञातिजनम् अब्रवीत् ॥
उत्तिष्ठत प्रबुध्यध्वं भद्रम् अस्तु हि वः सदा
नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥
ते तथोक्ताः समुत्थाय त्वरिता राजशासनात्
पञ्च नावां शतान्य् एव समानिन्युः समन्ततः ॥
अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः
शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः ॥
ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम्
सनन्दिघोषां कल्याणीं गुहो नावम् उपाहरत् ॥
ताम् आरुरोह भरतः शत्रुघ्नश् च महाबलः
कौसल्या च सुमित्रा च याश् चान्या राजयोषितः ॥
पुरोहितश् च तत् पूर्वं गुरवे ब्राह्मणाश् च ये
अनन्तरं राजदारास् तथैव शकटापणाः ॥
आवासम् आदीपयतां तीर्थं चाप्य् अवगाहताम्
भाण्डानि चाददानानां घोषस् त्रिदिवम् अस्पृशत् ॥
पताकिन्यस् तु ता नावः स्वयं दाशैर् अधिष्ठिताः
वहन्त्यो जनम् आरूढं तदा संपेतुर् आशुगाः ॥
नारीणाम् अभिपूर्णास् तु काश्चित् काश्चित् तु वाजिनाम्
कश्चित् तत्र वहन्ति स्म यानयुग्यं महाधनम् ॥
ताः स्म गत्वा परं तीरम् अवरोप्य च तं जनम्
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥
सवैजयन्तास् तु गजा गजारोहैः प्रचोदिताः
तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥
नावश् चारुरुहुस् त्व् अन्ये प्लवैस् तेरुस् तथापरे
अन्ये कुम्भघटैस् तेरुर् अन्ये तेरुश् च बाहुभिः ॥
सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम्
मैत्रे मुहूर्ते प्रययौ प्रयागवनम् उत्तमम् ॥
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम्
द्रष्टुं भरद्वाजम् ऋषिप्रवर्यम् ऋत्विग्वृतः सन् भरतः प्रतस्थे ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0