भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.81

2.81.1

गुहस्य वचनं श्रुत्वा भरतो भृशम् अप्रियम्
ध्यानं जगाम तत्रैव यत्र तच् छ्रुतम् अप्रियम् ॥

2.81.2

सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः
पुण्डरीकविशालाक्षस् तरुणः प्रियदर्शनः ॥

2.81.3

प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः
पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥

2.81.4

तदवस्थं तु भरतं शत्रुघ्नो ऽनन्तरस्थितः
परिष्वज्य रुरोदोच्चैर् विसंज्ञः शोककर्शितः ॥

2.81.5

ततः सर्वाः समापेतुर् मातरो भरतस्य ताः
उपवासकृशा दीना भर्तृव्यसनकर्शिताः ॥

2.81.6

ताश् च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्
कौसल्या त्व् अनुसृत्यैनं दुर्मनाः परिषस्वजे ॥

2.81.7

वत्सला स्वं यथा वत्सम् उपगूह्य तपस्विनी
परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥

2.81.8

पुत्र व्याधिर् न ते कच्चिच् छरीरं परिबाधते
अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ॥

2.81.9

त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते
वृत्ते दशरथे राज्ञि नाथ एकस् त्वम् अद्य नः ॥

2.81.10

कच्चिन् न लक्ष्मणे पुत्र श्रुतं ते किंचिद् अप्रियम्
पुत्र वा ह्य् एकपुत्रायाः सहभार्ये वनं गते ॥

2.81.11

स मुहूर्तं समाश्वस्य रुदन्न् एव महायशाः
कौसल्यां परिसान्त्व्येदं गुहं वचनम् अब्रवीत् ॥

2.81.12

भ्राता मे क्वावसद् रात्रिं क्व सीता क्व च लक्ष्मणः
अस्वपच् छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥

2.81.13

सो ऽब्रवीद् भरतं पृष्टो निषादाधिपतिर् गुहः
यद्विधं प्रतिपेदे च रामे प्रियहिते ऽतिथौ ॥

2.81.14

अन्नम् उच्चावचं भक्षाः फलानि विविधानि च
रामायाभ्यवहारार्थं बहु चोपहृतं मया ॥

2.81.15

तत् सर्वं प्रत्यनुज्ञासीद् रामः सत्यपराक्रमः
न हि तत् प्रत्यगृह्णात् स क्षत्रधर्मम् अनुस्मरन् ॥

2.81.16

न ह्य् अस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा
इति तेन वयं राजन्न् अनुनीता महात्मना ॥

2.81.17

लक्ष्मणेन समानीतं पीत्वा वारि महायशाः
औपवास्यं तदाकार्षीद् राघवः सह सीतया ॥

2.81.18

ततस् तु जलशेषेण लक्ष्मणो ऽप्य् अकरोत् तदा
वाग्यतास् ते त्रयः संध्याम् उपासत समाहिताः ॥

2.81.19

सौमित्रिस् तु ततः पश्चाद् अकरोत् स्वास्तरं शुभम्
स्वयम् आनीय बर्हींषि क्षिप्रं राघवकारणात् ॥

2.81.20

तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया
प्रक्षाल्य च तयोः पादाव् अपचक्राम लक्ष्मणः ॥

2.81.21

एतत् तद् इङ्गुदीमूलम् इदम् एव च तत् तृणम्
यस्मिन् रामश् च सीता च रात्रिं तां शयिताव् उभौ ॥

2.81.22

नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ् शरैः सुपूर्णाव् इषुधी परंतपः
महद् धनुः सज्यम् उपोह्य लक्ष्मणो निशाम् अतिष्ठत् परितो ऽस्य केवलम् ॥

2.81.23

ततस् त्व् अहं चोत्तमबाणचापधृक् स्थितो ऽभवं तत्र स यत्र लक्ष्मणः
अतन्द्रिभिर् ज्ञातिभिर् आत्तकार्मुकैर् महेन्द्रकल्पं परिपालयंस् तदा ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc