रामायण (संशोधित पाठ) · अध्याय 2.80
आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मनः
भरतायाप्रमेयाय गुहो गहनगोचरः ॥
तं जाग्रतं गुणैर् युक्तं वरचापेषुधारिणम्
भ्रातृगुप्त्यर्थम् अत्यन्तम् अहं लक्ष्मणम् अब्रुवम् ॥
इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता
प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन ॥
उचितो ऽयं जनः सर्वो दुःखानां त्वं सुखोचितः
धर्मात्मंस् तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥
न हि रामात् प्रियतरो ममास्ति भुवि कश्चन
मोत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यं तवाग्रतः ॥
अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः
धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम् ॥
सो ऽहं प्रियसखं रामं शयानं सह सीतया
रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर् ज्ञातिभिः सह ॥
न हि मे ऽविदितं किंचिद् वने ऽस्मिंश् चरतः सदा
चतुरङ्गं ह्य् अपि बलं प्रसहेम वयं युधि ॥
एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना
अनुनीता वयं सर्वे धर्मम् एवानुपश्यता ॥
कथं दाशरथौ भूमौ शयाने सह सीतया
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि
तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥
महता तपसा लब्धो विविधैश् च परिश्रमैः
एको दशरथस्यैष पुत्रः सदृशलक्षणः ॥
अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति
विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति ॥
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः
निर्घोषोपरतं नूनम् अद्य राजनिवेशनम् ॥
कौसल्या चैव राजा च तथैव जननी मम
नाशंसे यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥
जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया
दुःखिता या तु कौसल्या वीरसूर् विनशिष्यति ॥
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम्
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥
सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्
हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम् ॥
गजाश्वरथसम्बाधां तूर्यनादविनादिताम्
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥
आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम्
सुखिता विचरिष्यन्ति राजधानीं पितुर् मम ॥
अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्
निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥
परिदेवयमानस्य तस्यैवं सुमहात्मनः
तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ
अस्मिन् भागीरथीतीरे सुखं संतारितौ मया ॥
जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ
वरेषुचापासिधरौ परंतपौ व्यवेक्षमाणौ सह सीतया गतौ ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0