रामायण (संशोधित पाठ) · अध्याय 2.79
एवम् उक्तस् तु भरतो निषादाधिपतिं गुहम्
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥
ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे
यो मे त्वम् ईदृशीं सेनाम् एको ऽभ्यर्चितुम् इच्छसि ॥
इत्य् उक्त्वा तु महातेजा गुहं वचनम् उत्तमम्
अब्रवीद् भरतः श्रीमान् निषादाधिपतिं पुनः ॥
कतरेण गमिष्यामि भरद्वाजाश्रमं गुह
गहनो ऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः
अब्रवीत् प्राञ्जलिर् वाक्यं गुहो गहनगोचरः ॥
दाशास् त्व् अनुगमिष्यन्ति धन्विनः सुसमाहिताः
अहं चानुगमिष्यामि राजपुत्र महायशः ॥
कच्चिन् न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः
इयं ते महती सेना शङ्कां जनयतीव मे ॥
तम् एवम् अभिभाषन्तम् आकाश इव निर्मलः
भरतः श्लक्ष्णया वाचा गुहं वचनम् अब्रवीत् ॥
मा भूत् स कालो यत् कष्टं न मां शङ्कितुम् अर्हसि
राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम ॥
तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम्
बुद्धिर् अन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥
स तु संहृष्टवदनः श्रुत्वा भरतभाषितम्
पुनर् एवाब्रवीद् वाक्यं भरतं प्रति हर्षितः ॥
धन्यस् त्वं न त्वया तुल्यं पश्यामि जगतीतले
अयत्नाद् आगतं राज्यं यस् त्वं त्यक्तुम् इहेच्छसि ॥
शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति
यस् त्वं कृच्छ्रगतं रामं प्रत्यानयितुम् इच्छसि ॥
एवं सम्भाषमाणस्य गुहस्य भरतं तदा
बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत ॥
संनिवेश्य स तां सेनां गुहेन परितोषितः
शत्रुघ्नेन सह श्रीमाञ् शयनं पुनर् आगमत् ॥
रामचिन्तामयः शोको भरतस्य महात्मनः
उपस्थितो ह्य् अनर्हस्य धर्मप्रेक्षस्य तादृशः ॥
अन्तर्दाहेन दहनः संतापयति राघवम्
वनदाहाभिसंतप्तं गूढो ऽग्निर् इव पादपम् ॥
प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसम्भवः
यथा सूर्यांशुसंतप्तो हिमवान् प्रस्रुतो हिमम् ॥
ध्याननिर्दरशैलेन विनिःश्वसितधातुना
दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा ॥
प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना
आक्रान्तो दुःखशैलेन महता कैकयीसुतः ॥
गुहेन सार्धं भरतः समागतो महानुभावः सजनः समाहितः
सुदुर्मनास् तं भरतं तदा पुनर् गुहः समाश्वासयद् अग्रजं प्रति ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0