भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.8

2.8.1

मन्थरा त्व् अभ्यसूय्यैनाम् उत्सृज्याभरणं च तत्
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥

2.8.2

हर्षं किम् इदम् अस्थाने कृतवत्य् असि बालिशे
शोकसागरमध्यस्थम् आत्मानं नावबुध्यसे ॥

2.8.3

सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते
यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥

2.8.4

प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम्
उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः ॥

2.8.5

हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः
अप्रहृष्टा भविष्यन्ति स्नुषास् ते भरतक्षये ॥

2.8.6

तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः
रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥

2.8.7

धर्मज्ञो गुरुभिर् दान्तः कृतज्ञः सत्यवाक् शुचिः
रामो राज्ञः सुतो ज्येष्ठो यौवराज्यम् अतो ऽर्हति ॥

2.8.8

भ्रातॄन् भृत्यांश् च दीर्घायुः पितृवत् पालयिष्यति
संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥

2.8.9

भरतश् चापि रामस्य ध्रुवं वर्षशतात् परम्
पितृपैतामहं राज्यम् अवाप्स्यति नरर्षभः ॥

2.8.10

सा त्वम् अभ्युदये प्राप्ते वर्तमाने च मन्थरे
भविष्यति च कल्याणे किमर्थं परितप्यसे
कौसल्यातो ऽतिरिक्तं च स तु शुश्रूषते हि माम् ॥

2.8.11

कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता
दीर्घम् उष्णं विनिःश्वस्य कैकेयीम् इदम् अब्रवीत् ॥

2.8.12

अनर्थदर्शिनी मौर्ख्यान् नात्मानम् अवबुध्यसे
शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥

2.8.13

भविता राघवो राजा राघवस्य च यः सुतः
राजवंशात् तु भरतः कैकेयि परिहास्यते ॥

2.8.14

न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि
स्थाप्यमानेषु सर्वेषु सुमहान् अनयो भवेत् ॥

2.8.15

तस्माज् ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः
स्थापयन्त्य् अनवद्याङ्गि गुणवत्स्व् इतरेष्व् अपि ॥

2.8.16

असाव् अत्यन्तनिर्भग्नस् तव पुत्रो भविष्यति
अनाथवत् सुखेभ्यश् च राजवंशाच् च वत्सले ॥

2.8.17

साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे
सपत्निवृद्धौ या मे त्वं प्रदेयं दातुम् इच्छसि ॥

2.8.18

ध्रुवं तु भरतं रामः प्राप्य राज्यम् अकण्टकम्
देशान्तरं नाययित्वा लोकान्तरम् अथापि वा ॥

2.8.19

बाल एव हि मातुल्यं भरतो नायितस् त्वया
संनिकर्षाच् च सौहार्दं जायते स्थावरेष्व् अपि ॥

2.8.20

गोप्ता हि रामं सौमित्रिर् लक्ष्मणं चापि राघवः
अश्विनोर् इव सौभ्रात्रं तयोर् लोकेषु विश्रुतम् ॥

2.8.21

तस्मान् न लक्ष्मणे रामः पापं किंचित् करिष्यति
रामस् तु भरते पापं कुर्याद् इति न संशयः ॥

2.8.22

तस्माद् राजगृहाद् एव वनं गच्छतु ते सुतः
एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥

2.8.23

एवं ते ज्ञातिपक्षस्य श्रेयश् चैव भविष्यति
यदि चेद् भरतो धर्मात् पित्र्यं राज्यम् अवाप्स्यति ॥

2.8.24

स ते सुखोचितो बालो रामस्य सहजो रिपुः
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥

2.8.25

अभिद्रुतम् इवारण्ये सिंहेन गजयूथपम्
प्रच्छाद्यमानं रामेण भरतं त्रातुम् अर्हसि ॥

2.8.26

दर्पान् निराकृता पूर्वं त्वया सौभाग्यवत्तया
राममाता सपत्नी ते कथं वैरं न यातयेत् ॥

2.8.27

यदा हि रामः पृथिवीम् अवाप्स्यति ध्रुवं प्रनष्टो भरतो भविष्यति
अतो हि संचिन्तय राज्यम् आत्मजे परस्य चाद्यैव विवासकारणम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc