रामायण (संशोधित पाठ) · अध्याय 2.9
एवम् उक्ता तु कैकेयी क्रोधेन ज्वलितानना
दीर्घम् उष्णं विनिःश्वस्य मन्थराम् इदम् अब्रवीत् ॥
अद्य रामम् इतः क्षिप्रं वनं प्रस्थापयाम्य् अहम्
यौवराज्येन भरतं क्षिप्रम् एवाभिषेचये ॥
इदं त्व् इदानीं संपश्य केनोपायेन मन्थरे
भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन ॥
एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी
रामार्थम् उपहिंसन्ती कैकेयीम् इदम् अब्रवीत् ॥
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥
श्रुत्वैवं वचनं तस्या मन्थरायास् तु कैकयी
किंचिद् उत्थाय शयनात् स्वास्तीर्णाद् इदम् अब्रवीत् ॥
कथय त्वं ममोपायं केनोपायेन मन्थरे
भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन ॥
एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी
रामार्थम् उपहिंसन्ती कुब्जा वचनम् अब्रवीत् ॥
तव देवासुरे युद्धे सह राजर्षिभिः पतिः
अगच्छत् त्वाम् उपादाय देवराजस्य साह्यकृत् ॥
दिशम् आस्थाय कैकेयि दक्षिणां दण्डकान् प्रति
वैजयन्तम् इति ख्यातं पुरं यत्र तिमिध्वजः ॥
स शम्बर इति ख्यातः शतमायो महासुरः
ददौ शक्रस्य संग्रामं देवसंघैर् अनिर्जितः ॥
तस्मिन् महति संग्रामे राजा दशरथस् तदा
अपवाह्य त्वया देवि संग्रामान् नष्टचेतनः ॥
तत्रापि विक्षतः शस्त्रैः पतिस् ते रक्षितस् त्वया
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ॥
स त्वयोक्तः पतिर् देवि यदेच्छेयं तदा वरौ
गृह्णीयाम् इति तत् तेन तथेत्य् उक्तं महात्मना
अनभिज्ञा ह्य् अहं देवि त्वयैव कथितं पुरा ॥
तौ वरौ याच भर्तारं भरतस्याभिषेचनम्
प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश ॥
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते
शेष्वान् अन्तर्हितायां त्वं भूमौ मलिनवासिनी
मा स्मैनं प्रत्युदीक्षेथा मा चैनम् अभिभाषथाः ॥
दयिता त्वं सदा भर्तुर् अत्र मे नास्ति संशयः
त्वत्कृते च महाराजो विशेद् अपि हुताशनम् ॥
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्
तव प्रियार्थं राजा हि प्राणान् अपि परित्यजेत् ॥
न ह्य् अतिक्रमितुं शक्तस् तव वाक्यं महीपतिः
मन्दस्वभावे बुध्यस्व सौभाग्यबलम् आत्मनः ॥
मणिमुक्तासुवर्णानि रत्नानि विविधानि च
दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः ॥
यौ तौ देवासुरे युद्धे वरौ दशरथो ऽददात्
तौ स्मारय महाभागे सो ऽर्थो मा त्वाम् अतिक्रमेत् ॥
यदा तु ते वरं दद्यात् स्वयम् उत्थाप्य राघवः
व्यवस्थाप्य महाराजं त्वम् इमं वृणुया वरम् ॥
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च
भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः ॥
एवं प्रव्राजितश् चैव रामो ऽरामो भविष्यति
भरतश् च हतामित्रस् तव राजा भविष्यति ॥
येन कालेन रामश् च वनात् प्रत्यागमिष्यति
तेन कालेन पुत्रस् ते कृतमूलो भविष्यति
संगृहीतमनुष्यश् च सुहृद्भिः सार्धम् आत्मवान् ॥
प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा
रामाभिषेकसंकल्पान् निगृह्य विनिवर्तय ॥
अनर्थम् अर्थरूपेण ग्राहिता सा ततस् तया
हृष्टा प्रतीता कैकेयी मन्थराम् इदम् अब्रवीत् ॥
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम्
पृथिव्याम् असि कुब्जानाम् उत्तमा बुद्धिनिश्चये ॥
त्वम् एव तु ममार्थेषु नित्ययुक्ता हितैषिणी
नाहं समवबुध्येयं कुब्जे राज्ञश् चिकीर्षितम् ॥
सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः
त्वं पद्मम् इव वातेन संनता प्रियदर्शना ॥
उरस् ते ऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम्
अधस्ताच् चोदरं शान्तं सुनाभम् इव लज्जितम् ॥
जघनं तव निर्घुष्टं रशनादामशोभितम्
जङ्घे भृशम् उपन्यस्ते पादौ चाप्य् आयताव् उभौ ॥
त्वम् आयताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि
अग्रतो मम गच्छन्ती राजहंसीव राजसे ॥
तवेदं स्थगु यद् दीर्घं रथघोणम् इवायतम्
मतयः क्षत्रविद्याश् च मायाश् चात्र वसन्ति ते ॥
अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम्
अभिषिक्ते च भरते राघवे च वनं गते ॥
जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ॥
मुखे च तिलकं चित्रं जातरूपमयं शुभम्
कारयिष्यामि ते कुब्जे शुभान्य् आभरणानि च ॥
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि
चन्द्रम् आह्वयमानेन मुखेनाप्रतिमानना
गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् ॥
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः
पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥
इति प्रशस्यमाना सा कैकेयीम् इदम् अब्रवीत्
शयानां शयने शुभ्रे वेद्याम् अग्निशिखाम् इव ॥
गतोदके सेतुबन्धो न कल्याणि विधीयते
उत्तिष्ठ कुरु कल्याणं राजानम् अनुदर्शय ॥
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना
अवमुच्य वरार्हाणि शुभान्य् आभरणानि च ॥
ततो हेमोपमा तत्र कुब्जा वाक्यवशं गता
संविश्य भूमौ कैकेयी मन्थराम् इदम् अब्रवीत् ॥
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि
वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥
अथैतद् उक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी
असंवृताम् आस्तरणेन मेदिनीं तदाधिशिश्ये पतितेव किंनरी ॥
उदीर्णसंरम्भतमोवृतानना तथावमुक्तोत्तममाल्यभूषणा
नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौर् इव मग्नतारका ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0