रामायण (संशोधित पाठ) · अध्याय 2.7
ज्ञातिदासी यतो जाता कैकेय्यास् तु सहोषिता
प्रासादं चन्द्रसंकाशम् आरुरोह यदृच्छया ॥
सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम्
अयोध्यां मन्थरा तस्मात् प्रासादाद् अन्ववैक्षत ॥
पताकाभिर् वरार्हाभिर् ध्वजैश् च समलंकृताम्
सिक्तां चन्दनतोयैश् च शिरःस्नातजनैर् वृताम् ॥
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ॥
राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति
अतिमात्रं प्रहर्षो ऽयं किं जनस्य च शंस मे
कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः ॥
विदीर्यमाणा हर्षेण धात्री परमया मुदा
आचचक्षे ऽथ कुब्जायै भूयसीं राघवे श्रियम् ॥
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम्
राजा दशरथो रामम् अभिषेचयितानघम् ॥
धात्र्यास् तु वचनं श्रुत्वा कुब्जा क्षिप्रम् अमर्षिता
कैलासशिखराकारात् प्रासादाद् अवरोहत ॥
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी
शयानाम् एत्य कैकेयीम् इदं वचनम् अब्रवीत् ॥
उत्तिष्ठ मूढे किं शेषे भयं त्वाम् अभिवर्तते
उपप्लुतमहौघेन किम् आत्मानं न बुध्यसे ॥
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥
एवम् उक्ता तु कैकेयी रुष्टया परुषं वचः
कुब्जया पापदर्शिन्या विषादम् अगमत् परम् ॥
कैकेयी त्व् अब्रवीत् कुब्जां कच्चित् क्षेमं न मन्थरे
विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी
विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥
अक्षेमं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम्
रामं दशरथो राजा यौवराज्ये ऽभिषेक्ष्यति ॥
सास्म्य् अगाधे भये मग्ना दुःखशोकसमन्विता
दह्यमानानलेनेव त्वद्धितार्थम् इहागता ॥
तव दुःखेन कैकेयि मम दुःखं महद् भवेत्
त्वद्वृद्धौ मम वृद्धिश् च भवेद् अत्र न संशयः ॥
नराधिपकुले जाता महिषी त्वं महीपतेः
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः
शुद्धभावे न जानीषे तेनैवम् अतिसंधिता ॥
उपस्थितं प्रयुञ्जानस् त्वयि सान्त्वम् अनर्थकम्
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥
अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु
काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया
आशीविष इवाङ्केन बाले परिधृतस् त्वया ॥
यथा हि कुर्यात् सर्पो वा शत्रुर् वा प्रत्युपेक्षितः
राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥
पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते
रामं स्थापयता राज्ये सानुबन्धा हता ह्य् असि ॥
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव
त्रायस्व पुत्रम् आत्मानं मां च विस्मयदर्शने ॥
मन्थराया वचः श्रुत्वा शयनात् स शुभानना
एवम् आभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥
दत्त्वा त्व् आभरणं तस्यै कुब्जायै प्रमदोत्तमा
कैकेयी मन्थरां हृष्टा पुनर् एवाब्रवीद् इदम् ॥
इदं तु मन्थरे मह्यम् आख्यासि परमं प्रियम्
एतन् मे प्रियम् आख्यातुः किं वा भूयः करोमि ते ॥
रामे वा भरते वाहं विशेषं नोपलक्षये
तस्मात् तुष्टास्मि यद् राजा रामं राज्ये ऽभिषेक्ष्यति ॥
न मे परं किंचिद् इतस् त्वया पुनः प्रियं प्रियार्हे सुवचं वचो वरम्
तथा ह्य् अवोचस् त्वम् अतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0