भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.78

2.78.1

ततो निविष्टां ध्वजिनीं गङ्गाम् अन्वाश्रितां नदीम्
निषादराजो दृष्ट्वैव ज्ञातीन् संत्वरितो ऽब्रवीत् ॥

2.78.2

महतीयम् अतः सेना सागराभा प्रदृश्यते
नास्यान्तम् अवगच्छामि मनसापि विचिन्तयन् ॥

2.78.3

स एष हि महाकायः कोविदारध्वजो रथे
बन्धयिष्यति वा दाशान् अथ वास्मान् वधिष्यति ॥

2.78.4

अथ दाशरथिं रामं पित्रा राज्याद् विवासितम्
भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति ॥

2.78.5

भर्ता चैव सखा चैव रामो दाशरथिर् मम
तस्यार्थकामाः संनद्धा गङ्गानूपे ऽत्र तिष्ठत ॥

2.78.6

तिष्ठन्तु सर्वदाशाश् च गङ्गाम् अन्वाश्रिता नदीम्
बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥

2.78.7

नावां शतानां पञ्चानां कैवर्तानां शतं शतम्
संनद्धानां तथा यूनां तिष्ठन्त्व् इत्य् अभ्यचोदयत् ॥

2.78.8

यदा तुष्टस् तु भरतो रामस्येह भविष्यति
सेयं स्वस्तिमयी सेना गङ्गाम् अद्य तरिष्यति ॥

2.78.9

इत्य् उक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च
अभिचक्राम भरतं निषादाधिपतिर् गुहः ॥

2.78.10

तम् आयान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान्
भरतायाचचक्षे ऽथ विनयज्ञो विनीतवत् ॥

2.78.11

एष ज्ञातिसहस्रेण स्थपतिः परिवारितः
कुशलो दण्डकारण्ये वृद्धो भ्रातुश् च ते सखा ॥

2.78.12

तस्मात् पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः
असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥

2.78.13

एतत् तु वचनं श्रुत्वा सुमन्त्राद् भरतः शुभम्
उवाच वचनं शीघ्रं गुहः पश्यतु माम् इति ॥

2.78.14

लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः
आगम्य भरतं प्रह्वो गुहो वचनम् अब्रवीत् ॥

2.78.15

निष्कुटश् चैव देशो ऽयं वञ्चिताश् चापि ते वयम्
निवेदयामस् ते सर्वे स्वके दाशकुले वस ॥

2.78.16

अस्ति मूलं फलं चैव निषादैः समुपाहृतम्
आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् ॥

2.78.17

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम्
अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc