रामायण (संशोधित पाठ) · अध्याय 2.77
ततः समुत्थितः काल्यम् आस्थाय स्यन्दनोत्तमम्
प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया ॥
अग्रतः प्रययुस् तस्य सर्वे मन्त्रिपुरोधसः
अधिरुह्य हयैर् युक्तान् रथान् सूर्यरथोपमान् ॥
नवनागसहस्राणि कल्पितानि यथाविधि
अन्वयुर् भरतं यान्तम् इक्ष्वाकुकुलनन्दनम् ॥
षष्ठी रथसहस्राणि धन्विनो विविधायुधाः
अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम् ॥
शतं सहस्राण्य् अश्वानां समारूढानि राघवम्
अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम् ॥
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी
रामानयनसंहृष्टा ययुर् यानेन भास्वता ॥
प्रयाताश् चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम्
तस्यैव च कथाश् चित्राः कुर्वाणा हृष्टमानसाः ॥
मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥
दृष्ट एव हि नः शोकम् अपनेष्यति राघवः
तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥
इत्य् एवं कथयन्तस् ते सम्प्रहृष्टाः कथाः शुभाः
परिष्वजानाश् चान्योन्यं ययुर् नागरिकास् तदा ॥
ये च तत्रापरे सर्वे संमता ये च नैगमाः
रामं प्रति ययुर् हृष्टाः सर्वाः प्रकृतयस् तदा ॥
मणिकाराश् च ये केचित् कुम्भकाराश् च शोभनाः
सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः ॥
मायूरकाः क्राकचिका रोचका वेधकास् तथा
दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः ॥
सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः
स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास् तथा ॥
रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः
शैलूषाश् च सह स्त्रीभिर् यान्ति कैवर्तकास् तथा ॥
समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः
गोरथैर् भरतं यान्तम् अनुजग्मुः सहस्रशः ॥
सुवेषाः शुद्धवसनास् ताम्रमृष्टानुलेपनाः
सर्वे ते विविधैर् यानैः शनैर् भरतम् अन्वयुः ॥
प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम्
व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥
निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम्
भरतः सचिवान् सर्वान् अब्रवीद् वाक्यकोविदः ॥
निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः
विश्रान्ताः प्रतरिष्यामः श्व इदानीं महानदीम् ॥
दातुं च तावद् इच्छामि स्वर् गतस्य महीपतेः
और्ध्वदेहनिमित्तार्थम् अवतीर्योदकं नदीम् ॥
तस्यैवं ब्रुवतो ऽमात्यास् तथेत्य् उक्त्वा समाहिताः
न्यवेशयंस् तांश् छन्देन स्वेन स्वेन पृथक्पृथक् ॥
निवेश्य गङ्गाम् अनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम्
उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0