रामायण (संशोधित पाठ) · अध्याय 2.72
अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः
भरतं शोकसंतप्तम् इदं वचनम् अब्रवीत् ॥
गतिर् यः सर्वभूतानां दुःखे किं पुनर् आत्मनः
स रामः सत्त्वसम्पन्नः स्त्रिया प्रव्राजितो वनम् ॥
बलवान् वीर्यसम्पन्नो लक्ष्मणो नाम यो ऽप्य् असौ
किं न मोचयते रामं कृत्वापि पितृनिग्रहम् ॥
पूर्वम् एव तु निग्राह्यः समवेक्ष्य नयानयौ
उत्पथं यः समारूढो नार्या राजा वशं गतः ॥
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे
प्राग्द्वारे ऽभूत् तदा कुब्जा सर्वाभरणभूषिता ॥
लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती
मेखलादामभिश् चित्रै रज्जुबद्धेव वानरी ॥
तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम्
गृहीत्वाकरुणां कुब्जां शत्रुघ्नाय न्यवेदयत् ॥
यस्याः कृते वने रामो न्यस्तदेहश् च वः पिता
सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥
शत्रुघ्नश् च तद् आज्ञाय वचनं भृशदुःखितः
अन्तःपुरचरान् सर्वान् इत्य् उवाच धृतव्रतः ॥
तीव्रम् उत्पादितं दुःखं भ्रातॄणां मे तथा पितुः
यया सेयं नृशंसस्य कर्मणः फलम् अश्नुताम् ॥
एवम् उक्ता च तेनाशु सखीजनसमावृता
गृहीता बलवत् कुब्जा सा तद्गृहम् अनादयत् ॥
ततः सुभृशसंतप्तस् तस्याः सर्वः सखीजनः
क्रुद्धम् आज्ञाय शत्रुघ्नं व्यपलायत सर्वशः ॥
अमन्त्रयत कृत्स्नश् च तस्याः सर्वसखीजनः
यथायं समुपक्रान्तो निःशेषं नः करिष्यति ॥
सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम्
कौसल्यां शरणं यामः सा हि नो ऽस्तु ध्रुवा गतिः ॥
स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः
विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले ॥
तस्या ह्य् आकृष्यमाणाया मन्थरायास् ततस् ततः
चित्रं बहुविधं भाण्डं पृथिव्यां तद् व्यशीर्यत ॥
तेन भाण्डेन संकीर्णं श्रीमद्राजनिवेशनम्
अशोभत तदा भूयः शारदं गगनं यथा ॥
स बली बलवत् क्रोधाद् गृहीत्वा पुरुषर्षभः
कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषं वचः ॥
तैर् वाक्यैः परुषैर् दुःखैः कैकेयी भृशदुःखिता
शत्रुघ्नभयसंत्रस्ता पुत्रं शरणम् आगता ॥
तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नम् इदम् अब्रवीत्
अवध्याः सर्वभूतानां प्रमदाः क्षम्यताम् इति ॥
हन्याम् अहम् इमां पापां कैकेयीं दुष्टचारिणीम्
यदि मां धार्मिको रामो नासूयेन् मातृघातकम् ॥
इमाम् अपि हतां कुब्जां यदि जानाति राघवः
त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥
भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः
न्यवर्तत ततो रोषात् तां मुमोच च मन्थराम् ॥
सा पादमूले कैकेय्या मन्थरा निपपात ह
निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च ॥
शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता
शनैः समाश्वासयद् आर्तरूपां क्रौञ्चीं विलग्नाम् इव वीक्षमाणाम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0