रामायण (संशोधित पाठ) · अध्याय 2.71
ततो दशाहे ऽतिगते कृतशौचो नृपात्मजः
द्वादशे ऽहनि सम्प्राप्ते श्राद्धकर्माण्य् अकारयत् ॥
ब्राह्मणेभ्यो ददौ रत्नं धनम् अन्नं च पुष्कलम्
बास्तिकं बहुशुक्लं च गाश् चापि शतशस् तथा ॥
दासीदासं च यानं च वेश्मानि सुमहान्ति च
ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस् तस्यौर्ध्वदैहिकम् ॥
ततः प्रभातसमये दिवसे ऽथ त्रयोदशे
विललाप महाबाहुर् भरतः शोकमूर्छितः ॥
शब्दापिहितकण्ठश् च शोधनार्थम् उपागतः
चितामूले पितुर् वाक्यम् इदम् आह सुदुःखितः ॥
तात यस्मिन् निसृष्टो ऽहं त्वया भ्रातरि राघवे
तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तो ऽस्म्य् अहं त्वया ॥
यथागतिर् अनाथायाः पुत्रः प्रव्राजितो वनम्
ताम् अम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप ॥
दृष्ट्वा भस्मारुणं तच् च दग्धास्थिस्थानमण्डलम्
पितुः शरीरनिर्वाणं निष्टनन् विषसाद ह ॥
स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले
उत्थाप्यमानः शक्रस्य यन्त्रध्वज इव च्युतः ॥
अभिपेतुस् ततः सर्वे तस्यामात्याः शुचिव्रतम्
अन्तकाले निपतितं ययातिम् ऋषयो यथा ॥
शत्रुघ्नश् चापि भरतं दृष्ट्वा शोकपरिप्लुतम्
विसंज्ञो न्यपतद् भूमौ भूमिपालम् अनुस्मरन् ॥
उन्मत्त इव निश्चेता विललाप सुदुःखितः
स्मृत्वा पितुर् गुणाङ्गानि तानि तानि तदा तदा ॥
मन्थराप्रभवस् तीव्रः कैकेयीग्राहसंकुलः
वरदानमयो ऽक्षोभ्यो ऽमज्जयच् छोकसागरः ॥
सुकुमारं च बालं च सततं लालितं त्वया
क्व तात भरतं हित्वा विलपन्तं गतो भवान् ॥
ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च
प्रवारयसि नः सर्वांस् तन् नः को ऽद्य करिष्यति ॥
अवदारणकाले तु पृथिवी नावदीर्यते
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ॥
पितरि स्वर्गम् आपन्ने रामे चारण्यम् आश्रिते
किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ॥
हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकुपालिताम्
अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ॥
तयोर् विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत्
भृशम् आर्ततरा भूयः सर्व एवानुगामिनः ॥
ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरताव् उभौ
धरण्यां संव्यचेष्टेतां भग्नशृङ्गाव् इवर्षभौ ॥
ततः प्रकृतिमान् वैद्यः पितुर् एषां पुरोहितः
वसिष्ठो भरतं वाक्यम् उत्थाप्य तम् उवाच ह ॥
त्रीणि द्वंद्वानि भूतेषु प्रवृत्तान्य् अविशेषतः
तेषु चापरिहार्येषु नैवं भवितुम् अर्हति ॥
सुमन्त्रश् चापि शत्रुघ्नम् उत्थाप्याभिप्रसाद्य च
श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ॥
उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ
वर्षातपपरिक्लिन्नौ पृथग् इन्द्रध्वजाव् इव ॥
अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ
अमात्यास् त्वरयन्ति स्म तनयौ चापराः क्रियाः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0