भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.70

2.70.1

तम् एवं शोकसंतप्तं भरतं केकयीसुतम्
उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवाग् ऋषिः ॥

2.70.2

अलं शोकेन भद्रं ते राजपुत्र महायशः
प्राप्तकालं नरपतेः कुरु संयानम् उत्तरम् ॥

2.70.3

वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥

2.70.4

उद्धृतं तैलसंक्लेदात् स तु भूमौ निवेशितम्
आपीतवर्णवदनं प्रसुप्तम् इव भूमिपम् ॥

2.70.5

निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते
ततो दशरथं पुत्रो विललाप सुदुःखितः ॥

2.70.6

किं ते व्यवसितं राजन् प्रोषिते मय्य् अनागते
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥

2.70.7

क्व यास्यसि महाराज हित्वेमं दुःखितं जनम्
हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥

2.70.8

योगक्षेमं तु ते राजन् को ऽस्मिन् कल्पयिता पुरे
त्वयि प्रयाते स्वस् तात रामे च वनम् आश्रिते ॥

2.70.9

विधवा पृथिवी राजंस् त्वया हीना न राजते
हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् ॥

2.70.10

एवं विलपमानं तं भरतं दीनमानसम्
अब्रवीद् वचनं भूयो वसिष्ठस् तु महान् ऋषिः ॥

2.70.11

प्रेतकार्याणि यान्य् अस्य कर्तव्यानि विशांपतेः
तान्य् अव्यग्रं महाबाहो क्रियन्ताम् अविचारितम् ॥

2.70.12

तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्
ऋत्विक्पुरोहिताचार्यांस् त्वरयामास सर्वशः ॥

2.70.13

ये त्व् अग्रतो नरेन्द्रस्य अग्न्यगाराद् बहिष्कृताः
ऋत्विग्भिर् याजकैश् चैव ते ह्रियन्ते यथाविधि ॥

2.70.14

शिबिकायाम् अथारोप्य राजानं गतचेतनम्
बाष्पकण्ठा विमनसस् तम् ऊहुः परिचारकाः ॥

2.70.15

हिरण्यं च सुवर्णं च वासांसि विविधानि च
प्रकिरन्तो जना मार्गं नृपतेर् अग्रतो ययुः ॥

2.70.16

चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा
देवदारूणि चाहृत्य चितां चक्रुस् तथापरे ॥

2.70.17

गन्धान् उच्चावचांश् चान्यांस् तत्र दत्त्वाथ भूमिपम्
ततः संवेशयामासुश् चितामध्ये तम् ऋत्विजः ॥

2.70.18

तथा हुताशनं हुत्वा जेपुस् तस्य तदर्त्विजः
जगुश् च ते यथाशास्त्रं तत्र सामानि सामगाः ॥

2.70.19

शिबिकाभिश् च यानैश् च यथार्हं तस्य योषितः
नगरान् निर्ययुस् तत्र वृद्धैः परिवृतास् तदा ॥

2.70.20

प्रसव्यं चापि तं चक्रुर् ऋत्विजो ऽग्निचितं नृपम्
स्त्रियश् च शोकसंतप्ताः कौसल्याप्रमुखास् तदा ॥

2.70.21

क्रौञ्चीनाम् इव नारीणां निनादस् तत्र शुश्रुवे
आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥

2.70.22

ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः
यानेभ्यः सरयूतीरम् अवतेरुर् वराङ्गनाः ॥

2.70.23

कृतोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश् च
पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc