भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.69

2.69.1

तथैव क्रोशतस् तस्य भरतस्य महात्मनः
कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥

2.69.2

आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः
तम् अहं द्रष्टुम् इच्छामि भरतं दीर्घदर्शिनम् ॥

2.69.3

एवम् उक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा
प्रतस्थे भरतो यत्र वेपमाना विचेतना ॥

2.69.4

स तु रामानुजश् चापि शत्रुघ्नसहितस् तदा
प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् ॥

2.69.5

ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ
पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् ॥

2.69.6

भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता
इदं ते राज्यकामस्य राज्यं प्राप्तम् अकण्टकम्
सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ॥

2.69.7

प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्
कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी ॥

2.69.8

क्षिप्रं माम् अपि कैकेयी प्रस्थापयितुम् अर्हति
हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः ॥

2.69.9

अथ वा स्वयम् एवाहं सुमित्रानुचरा सुखम्
अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ॥

2.69.10

कामं वा स्वयम् एवाद्य तत्र मां नेतुम् अर्हसि
यत्रासौ पुरुषव्याघ्रस् तप्यते मे तपः सुतः ॥

2.69.11

इदं हि तव विस्तीर्णं धनधान्यसमाचितम्
हस्त्यश्वरथसम्पूर्णं राज्यं निर्यातितं तया ॥

2.69.12

एवं विलपमानां तां भरतः प्राञ्जलिस् तदा
कौसल्यां प्रत्युवाचेदं शोकैर् बहुभिर् आवृताम् ॥

2.69.13

आर्ये कस्माद् अजानन्तं गर्हसे माम् अकिल्बिषम्
विपुलां च मम प्रीतिं स्थिरां जानासि राघवे ॥

2.69.14

कृता शास्त्रानुगा बुद्धिर् मा भूत् तस्य कदाचन
सत्यसंधः सतां श्रेष्ठो यस्यार्यो ऽनुमते गतः ॥

2.69.15

प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु
हन्तु पादेन गां सुप्तां यस्यार्यो ऽनुमते गतः ॥

2.69.16

कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम्
अधर्मो यो ऽस्य सो ऽस्यास् तु यस्यार्यो ऽनुमते गतः ॥

2.69.17

परिपालयमानस्य राज्ञो भूतानि पुत्रवत्
ततस् तु द्रुह्यतां पापं यस्यार्यो ऽनुमते गतः ॥

2.69.18

बलिषड्भागम् उद्धृत्य नृपस्यारक्षतः प्रजाः
अधर्मो यो ऽस्य सो ऽस्यास्तु यस्यार्यो ऽनुमते गतः ॥

2.69.19

संश्रुत्य च तपस्विभ्यः सत्त्रे वै यज्ञदक्षिणाम्
तां विप्रलपतां पापं यस्यार्यो ऽनुमते गतः ॥

2.69.20

हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले
मा स्म कार्षीत् सतां धर्मं यस्यार्यो ऽनुमते गतः ॥

2.69.21

उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता
स नाशयतु दुष्टात्मा यस्यार्यो ऽनुमते गतः ॥

2.69.22

पायसं कृसरं छागं वृथा सो ऽश्नातु निर्घृणः
गुरूंश् चाप्य् अवजानातु यस्यार्यो ऽनुमते गतः ॥

2.69.23

पुत्रैर् दारैश् च भृत्यैश् च स्वगृहे परिवारितः
स एको मृष्टम् अश्नातु यस्यार्यो ऽनुमते गतः ॥

2.69.24

राजस्त्रीबालवृद्धानां वधे यत् पापम् उच्यते
भृत्यत्यागे च यत् पापं तत् पापं प्रतिपद्यताम् ॥

2.69.25

उभे संध्ये शयानस्य यत् पापं परिकल्प्यते
तच् च पापं भवेत् तस्य यस्यार्यो ऽनुमते गतः ॥

2.69.26

यद् अग्निदायके पापं यत् पापं गुरुतल्पगे
मित्रद्रोहे च यत् पापं तत् पापं प्रतिपद्यताम् ॥

2.69.27

देवतानां पितॄणां च मातापित्रोस् तथैव च
मा स्म कार्षीत् स शुश्रूषां यस्यार्यो ऽनुमते गतः ॥

2.69.28

सतां लोकात् सतां कीर्त्याः सज्जुष्टात् कर्मणस् तथा
भ्रश्यतु क्षिप्रम् अद्यैव यस्यार्यो ऽनुमते गतः ॥

2.69.29

विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः
एवम् आश्वासयन्न् एव दुःखार्तो निपपात ह ॥

2.69.30

तथा तु शपथैः कष्टैः शपमानम् अचेतनम्
भरतं शोकसंतप्तं कौसल्या वाक्यम् अब्रवीत् ॥

2.69.31

मम दुःखम् इदं पुत्र भूयः समुपजायते
शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥

2.69.32

दिष्ट्या न चलितो धर्माद् आत्मा ते सहलक्ष्मणः
वत्स सत्यप्रतिज्ञो मे सतां लोकान् अवाप्स्यसि ॥

2.69.33

एवं विलपमानस्य दुःखार्तस्य महात्मनः
मोहाच् च शोकसंरोधाद् बभूव लुलितं मनः ॥

2.69.34

लालप्यमानस्य विचेतनस्य प्रनष्टबुद्धेः पतितस्य भूमौ
मुहुर् मुहुर् निःश्वसतश् च दीर्घं सा तस्य शोकेन जगाम रात्रिः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc