भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.68

2.68.1

तां तथा गर्हयित्वा तु मातरं भरतस् तदा
रोषेण महताविष्टः पुनर् एवाब्रवीद् वचः ॥

2.68.2

राज्याद् भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि
परित्यक्ता च धर्मेण मा मृतं रुदती भव ॥

2.68.3

किं नु ते ऽदूषयद् राजा रामो वा भृशधार्मिकः
ययोर् मृत्युर् विवासश् च त्वत्कृते तुल्यम् आगतौ ॥

2.68.4

भ्रूणहत्याम् असि प्राप्ता कुलस्यास्य विनाशनात्
कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् ॥

2.68.5

यत् त्वया हीदृशं पापं कृतं घोरेण कर्मणा
सर्वलोकप्रियं हित्वा ममाप्य् आपादितं भयम् ॥

2.68.6

त्वत्कृते मे पिता वृत्तो रामश् चारण्यम् आश्रितः
अयशो जीवलोके च त्वयाहं प्रतिपादितः ॥

2.68.7

मातृरूपे ममामित्रे नृशंसे राज्यकामुके
न ते ऽहम् अभिभाष्यो ऽस्मि दुर्वृत्ते पतिघातिनि ॥

2.68.8

कौसल्या च सुमित्रा च याश् चान्या मम मातरः
दुःखेन महताविष्टास् त्वां प्राप्य कुलदूषिणीम् ॥

2.68.9

न त्वम् अश्वपतेः कन्या धर्मराजस्य धीमतः
राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः ॥

2.68.10

यत् त्वया धार्मिको रामो नित्यं सत्यपरायणः
वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः ॥

2.68.11

यत्प्रधानासि तत् पापं मयि पित्रा विनाकृते
भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये ॥

2.68.12

कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये
कृत्वा कं प्राप्स्यसे त्व् अद्य लोकं निरयगामिनी ॥

2.68.13

किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम्
ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम् ॥

2.68.14

अङ्गप्रत्यङ्गजः पुत्रो हृदयाच् चापि जायते
तस्मात् प्रियतरो मातुः प्रियत्वान् न तु बान्धवः ॥

2.68.15

अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता
वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ ॥

2.68.16

ताव् अर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले
रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ॥

2.68.17

अधस्ताद् व्रजतस् तस्याः सुरराज्ञो महात्मनः
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥

2.68.18

तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर् यशस्विनीम्
इन्द्रः प्राञ्जलिर् उद्विग्नः सुरराजो ऽब्रवीद् वचः ॥

2.68.19

भयं कच्चिन् न चास्मासु कुतश्चिद् विद्यते महत्
कुतोनिमित्तः शोकस् ते ब्रूहि सर्वहितैषिणि ॥

2.68.20

एवम् उक्ता तु सुरभिः सुरराजेन धीमता
प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा ॥

2.68.21

शान्तं पापं न वः किंचित् कुतश्चिद् अमराधिप
अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ ॥

2.68.22

एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ
अर्द्यमानौ बलीवर्दौ कर्षकेण सुराधिप ॥

2.68.23

मम कायात् प्रसूतौ हि दुःखितौ भारपीडितौ
यौ दृष्ट्वा परितप्ये ऽहं नास्ति पुत्रसमः प्रियः ॥

2.68.24

यस्याः पुत्रसहस्राणि सापि शोचति कामधुक्
किं पुनर् या विना रामं कौसल्या वर्तयिष्यति ॥

2.68.25

एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता
तस्मात् त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ॥

2.68.26

अहं ह्य् अपचितिं भ्रातुः पितुश् च सकलाम् इमाम्
वर्धनं यशसश् चापि करिष्यामि न संशयः ॥

2.68.27

आनाययित्वा तनयं कौसल्याया महाद्युतिम्
स्वयम् एव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ॥

2.68.28

इति नाग इवारण्ये तोमराङ्कुशचोदितः
पपात भुवि संक्रुद्धो निःश्वसन्न् इव पन्नगः ॥

2.68.29

संरक्तनेत्रः शिथिलाम्बरस् तदा विधूतसर्वाभरणः परंतपः
बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुर् इवोत्सवक्षये ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc