रामायण (संशोधित पाठ) · अध्याय 2.67
श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ
भरतो दुःखसंतप्त इदं वचनम् अब्रवीत् ॥
किं नु कार्यं हतस्येह मम राज्येन शोचतः
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥
दुःखे मे दुःखम् अकरोर् व्रणे क्षारम् इवादधाः
राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥
कुलस्य त्वम् अभावाय कालरात्रिर् इवागता
अङ्गारम् उपगूह्य स्म पिता मे नावबुद्धवान् ॥
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ॥
ननु त्व् आर्यो ऽपि धर्मात्मा त्वयि वृत्तिम् अनुत्तमाम्
वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते ॥
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी
त्वयि धर्मं समास्थाय भगिन्याम् इव वर्तते ॥
तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम्
प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥
अपापदर्शिनं शूरं कृतात्मानं यशस्विनम्
प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् ॥
लुब्धाया विदितो मन्ये न ते ऽहं राघवं प्रति
तथा ह्य् अनर्थो राज्यार्थं त्वया नीतो महान् अयम् ॥
अहं हि पुरुषव्याघ्राव् अपश्यन् रामलक्ष्मणौ
केन शक्तिप्रभावेन राज्यं रक्षितुम् उत्सहे ॥
तं हि नित्यं महाराजो बलवन्तं महाबलः
अपाश्रितो ऽभूद् धर्मात्मा मेरुर् मेरुवनं यथा ॥
सो ऽहं कथम् इमं भारं महाधुर्यसमुद्यतम्
दम्यो धुरम् इवासाद्य सहेयं केन चौजसा ॥
अथ वा मे भवेच् छक्तिर् योगैर् बुद्धिबलेन वा
सकामां न करिष्यामि त्वाम् अहं पुत्रगर्धिनीम्
निवर्तयिष्यामि वनाद् भ्रातरं स्वजनप्रियम् ॥
इत्य् एवम् उक्त्वा भरतो महात्मा प्रियेतरैर् वाक्यगणैस् तुदंस् ताम्
शोकातुरश् चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0