रामायण (संशोधित पाठ) · अध्याय 2.64
भरते ब्रुवति स्वप्नं दूतास् ते क्लान्तवाहनाः
प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् ॥
समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः
राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतं वचः ॥
पुरोहितस् त्वा कुशलं प्राह सर्वे च मन्त्रिणः
त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया ॥
अत्र विंशतिकोट्यस् तु नृपतेर् मातुलस्य ते
दशकोट्यस् तु सम्पूर्णास् तथैव च नृपात्मज ॥
प्रतिगृह्य च तत् सर्वं स्वनुरक्तः सुहृज्जने
दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥
कच्चित् सुकुशली राजा पिता दशरथो मम
कच्चिच् चारोगता रामे लक्ष्मणे वा महात्मनि ॥
आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी
अरोगा चापि कौसल्या माता रामस्य धीमतः ॥
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या
शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा ॥
आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी
अरोगा चापि कैकेयी माता मे किम् उवाच ह ॥
एवम् उक्तास् तु ते दूता भरतेन महात्मना
ऊचुः सम्प्रश्रितं वाक्यम् इदं तं भरतं तदा
कुशलास् ते नरव्याघ्र येषां कुशलम् इच्छसि ॥
भरतश् चापि तान् दूतान् एवम् उक्तो ऽभ्यभाषत
आपृच्छे ऽहं महाराजं दूताः संत्वरयन्ति माम् ॥
एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः
दूतैः संचोदितो वाक्यं मातामहम् उवाच ह ॥
राजन् पितुर् गमिष्यामि सकाशं दूतचोदितः
पुनर् अप्य् अहम् एष्यामि यदा मे त्वं स्मरिष्यसि ॥
भरतेनैवम् उक्तस् तु नृपो मातामहस् तदा
तम् उवाच शुभं वाक्यं शिरस्य् आघ्राय राघवम् ॥
गच्छ तातानुजाने त्वां कैकेयी सुप्रजास् त्वया
मातरं कुशलं ब्रूयाः पितरं च परंतप ॥
पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः
तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ॥
तस्मै हस्त्युत्तमांश् चित्रान् कम्बलान् अजिनानि च
अभिसत्कृत्य कैकेयो भरताय धनं ददौ ॥
रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च
सत्कृत्य कैकेयी पुत्रं केकयो धनम् आदिशत् ॥
तथामात्यान् अभिप्रेतान् विश्वास्यांश् च गुणान्वितान्
ददाव् अश्वपतिः शीघ्रं भरतायानुयायिनः ॥
ऐरावतान् ऐन्द्रशिरान् नागान् वै प्रियदर्शनान्
खराञ् शीघ्रान् सुसंयुक्तान् मातुलो ऽस्मै धनं ददौ ॥
अन्तःपुरे ऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान्
दंष्ट्रायुधान् महाकायाञ् शुनश् चोपायनं ददौ ॥
स मातामहम् आपृच्छ्य मातुलं च युधाजितम्
रथम् आरुह्य भरतः शत्रुघ्नसहितो ययौ ॥
रथान् मण्डलचक्रांश् च योजयित्वा परःशतम्
उष्ट्रगोऽश्वखरैर् भृत्या भरतं यान्तम् अन्वयुः ॥
बलेन गुप्तो भरतो महात्मा सहार्यकस्यात्मसमैर् अमात्यैः
आदाय शत्रुघ्नम् अपेतशत्रुर् गृहाद् ययौ सिद्ध इवेन्द्रलोकात् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0