भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.65

2.65.1

स प्राङ्मुखो राजगृहाद् अभिनिर्याय वीर्यवान्
ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरंगिणीम्
शतद्रूम् अतरच् छ्रीमान् नदीम् इक्ष्वाकुनन्दनः ॥

2.65.2

एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान्
शिलाम् आकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् ॥

2.65.3

सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम्
अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति ॥

2.65.4

वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम्
यमुनां प्राप्य संतीर्णो बलम् आश्वासयत् तदा ॥

2.65.5

शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः
तत्र स्नात्वा च पीत्वा च प्रायाद् आदाय चोदकम् ॥

2.65.6

राजपुत्रो महारण्यम् अनभीक्ष्णोपसेवितम्
भद्रो भद्रेण यानेन मारुतः खम् इवात्ययात् ॥

2.65.7

तोरणं दक्षिणार्धेन जम्बूप्रस्थम् उपागमत्
वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ॥

2.65.8

तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥

2.65.9

सालांस् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः
अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥

2.65.10

वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम्
अन्या नदीश् च विविधाः पार्वतीयैस् तुरंगमैः ॥

2.65.11

हस्तिपृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत
ततार च नरव्याघ्रो लौहित्ये स कपीवतीम्
एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ॥

2.65.12

कलिङ्गनगरे चापि प्राप्य सालवनं तदा
भरतः क्षिप्रम् आगच्छत् सुपरिश्रान्तवाहनः ॥

2.65.13

वनं च समतीत्याशु शर्वर्याम् अरुणोदये
अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह ॥

2.65.14

तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि
अयोध्याम् अग्रतो दृष्ट्वा रथे सारथिम् अब्रवीत् ॥

2.65.15

एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी
अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका ॥

2.65.16

यज्वभिर् गुणसम्पन्नैर् ब्राह्मणैर् वेदपारगैः
भूयिष्ठम् ऋद्धैर् आकीर्णा राजर्षिवरपालिता ॥

2.65.17

अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान्
समन्तान् नरनारीणां तम् अद्य न शृणोम्य् अहम् ॥

2.65.18

उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर् नरैः
समन्ताद् विप्रधावद्भिः प्रकाशन्ते ममान्यदा ॥

2.65.19

तान्य् अद्यानुरुदन्तीव परित्यक्तानि कामिभिः
अरण्यभूतेव पुरी सारथे प्रतिभाति मे ॥

2.65.20

न ह्य् अत्र यानैर् दृश्यन्ते न गजैर् न च वाजिभिः
निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् ॥

2.65.21

अनिष्टानि च पापानि पश्यामि विविधानि च
निमित्तान्य् अमनोज्ञानि तेन सीदति मे मनः ॥

2.65.22

द्वारेण वैजयन्तेन प्राविशच् छ्रान्तवाहनः
द्वाःस्थैर् उत्थाय विजयं पृष्टस् तैः सहितो ययौ ॥

2.65.23

स त्व् अनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम्
सूतम् अश्वपतेः क्लान्तम् अब्रवीत् तत्र राघवः ॥

2.65.24

श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने
आकारास् तान् अहं सर्वान् इह पश्यामि सारथे ॥

2.65.25

मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्
सस्त्रीपुंसं च पश्यामि जनम् उत्कण्ठितं पुरे ॥

2.65.26

इत्य् एवम् उक्त्वा भरतः सूतं तं दीनमानसः
तान्य् अनिष्टान्य् अयोध्यायां प्रेक्ष्य राजगृहं ययौ
तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम् ॥

2.65.27

दृष्ट्वा पुरीम् इन्द्रपुरीप्रकाशां दुःखेन सम्पूर्णतरो बभूव
बहूनि पश्यन् मनसो ऽप्रियाणि यान्य् अन्यदा नास्य पुरे बभूवुः
अवाक्शिरा दीनमना न हृष्टः पितुर् महात्मा प्रविवेश वेश्म ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc