रामायण (संशोधित पाठ) · अध्याय 2.63
याम् एव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम्
भरतेनापि तां रात्रिं स्वप्नो दृष्टो ऽयम् अप्रियः ॥
व्युष्टाम् एव तु तां रात्रिं दृष्ट्वा तं स्वप्नम् अप्रियम्
पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥
तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः
आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः ॥
वादयन्ति तथा शान्तिं लासयन्त्य् अपि चापरे
नाटकान्य् अपरे प्राहुर् हास्यानि विविधानि च ॥
स तैर् महात्मा भरतः सखिभिः प्रियवादिभिः
गोष्ठीहास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥
तम् अब्रवीत् प्रियसखो भरतं सखिभिर् वृतम्
सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥
एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह
शृणु त्वं यन्निमित्तं मे दैन्यम् एतद् उपागतम् ॥
स्वप्ने पितरम् अद्राक्षं मलिनं मुक्तमूर्धजम्
पतन्तम् अद्रिशिखरात् कलुषे गोमयह्रदे ॥
प्लवमानश् च मे दृष्टः स तस्मिन् गोमयह्रदे
पिबन्न् अञ्जलिना तैलं हसन्न् इव मुहुर् मुहुः ॥
ततस् तिलोदनं भुक्त्वा पुनः पुनर् अधःशिराः
तैलेनाभ्यक्तसर्वाङ्गस् तैलम् एवावगाहत ॥
स्वप्ने ऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि
सहसा चापि संशान्तं ज्वलितं जातवेदसम् ॥
अवदीर्णां च पृथिवीं शुष्कांश् च विविधान् द्रुमान्
अहं पश्यामि विध्वस्तान् सधूमांश् चैव पर्वतान् ॥
पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम्
प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः ॥
त्वरमाणश् च धर्मात्मा रक्तमाल्यानुलेपनः
रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥
एवम् एतन् मया दृष्टम् इमां रात्रिं भयावहाम्
अहं रामो ऽथ वा राजा लक्ष्मणो वा मरिष्यति ॥
नरो यानेन यः स्वप्ने खरयुक्तेन याति हि
अचिरात् तस्य धूमाग्रं चितायां सम्प्रदृश्यते
एतन्निमित्तं दीनो ऽहं तन् न वः प्रतिपूजये ॥
शुष्यतीव च मे कण्ठो न स्वस्थम् इव मे मनः
जुगुप्सन्न् इव चात्मानं न च पश्यामि कारणम् ॥
इमां हि दुःस्वप्नगतिं निशाम्य ताम् अनेकरूपाम् अवितर्कितां पुरा
भयं महत् तद्धृदयान् न याति मे विचिन्त्य राजानम् अचिन्त्यदर्शनम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0