भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.59

2.59.1

अथ रात्र्यां व्यतीतायां प्रातर् एवापरे ऽहनि
बन्दिनः पर्युपातिष्ठंस् तत् पार्थिवनिवेशनम् ॥

2.59.2

ततः शुचिसमाचाराः पर्युपस्थानकोविदाः
स्त्रीवर्षवरभूयिष्ठा उपतस्थुर् यथापुरम् ॥

2.59.3

हरिचन्दनसंपृक्तम् उदकं काञ्चनैर् घटैः
आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥

2.59.4

मङ्गलालम्भनीयानि प्राशनीयान् उपस्करान्
उपनिन्युस् तथाप्य् अन्याः कुमारीबहुलाः स्त्रियः ॥

2.59.5

अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः
ताः स्त्रियस् तु समागम्य भर्तारं प्रत्यबोधयन् ॥

2.59.6

ता वेपथुपरीताश् च राज्ञः प्राणेषु शङ्किताः
प्रतिस्रोतस् तृणाग्राणां सदृशं संचकम्पिरे ॥

2.59.7

अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम्
यत् तद् आशङ्कितं पापं तस्य जज्ञे विनिश्चयः ॥

2.59.8

ततः प्रचुक्रुशुर् दीनाः सस्वरं ता वराङ्गनाः
करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥

2.59.9

तासाम् आक्रन्दशब्देन सहसोद्गतचेतने
कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥

2.59.10

कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम्
हा नाथेति परिक्रुश्य पेततुर् धरणीतले ॥

2.59.11

सा कोसलेन्द्रदुहिता वेष्टमाना महीतले
न बभ्राज रजोध्वस्ता तारेव गगनच्युता ॥

2.59.12

तत् समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम्
सर्वतस् तुमुलाक्रन्दं परितापार्तबान्धवम् ॥

2.59.13

सद्यो निपतितानन्दं दीनविक्लवदर्शनम्
बभूव नरदेवस्य सद्म दिष्टान्तम् ईयुषः ॥

2.59.14

अतीतम् आज्ञाय तु पार्थिवर्षभं यशस्विनं संपरिवार्य पत्नयः
भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc