भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.58

2.58.1

तद् अज्ञानान् महत् पापं कृत्वा संकुलितेन्द्रियः
एकस् त्व् अचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् ॥

2.58.2

ततस् तं घटम् आदाय पूर्णं परमवारिणा
आश्रमं तम् अहं प्राप्य यथाख्यातपथं गतः ॥

2.58.3

तत्राहं दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ
अपश्यं तस्य पितरौ लूनपक्षाव् इव द्विजौ ॥

2.58.4

तन्निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ
ताम् आशां मत्कृते हीनाव् उदासीनाव् अनाथवत् ॥

2.58.5

पदशब्दं तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत
किं चिरायसि मे पुत्र पानीयं क्षिप्रम् आनय ॥

2.58.6

यन्निमित्तम् इदं तात सलिले क्रीडितं त्वया
उत्कण्ठिता ते मातेयं प्रविश क्षिप्रम् आश्रमम् ॥

2.58.7

यद् व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया
न तन् मनसि कर्तव्यं त्वया तात तपस्विना ॥

2.58.8

त्वं गतिस् त्व् अगतीनां च चक्षुस् त्वं हीनचक्षुषाम्
समासक्तास् त्वयि प्राणाः किंचिन् नौ नाभिभाषसे ॥

2.58.9

मुनिम् अव्यक्तया वाचा तम् अहं सज्जमानया
हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम् ॥

2.58.10

मनसः कर्म चेष्टाभिर् अभिसंस्तभ्य वाग्बलम्
आचचक्षे त्व् अहं तस्मै पुत्रव्यसनजं भयम् ॥

2.58.11

क्षत्रियो ऽहं दशरथो नाहं पुत्रो महात्मनः
सज्जनावमतं दुःखम् इदं प्राप्तं स्वकर्मजम् ॥

2.58.12

भगवंश् चापहस्तो ऽहं सरयूतीरम् आगतः
जिघांसुः श्वापदं किंचिन् निपाने वागतं गजम् ॥

2.58.13

तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः
द्विपो ऽयम् इति मत्वा हि बाणेनाभिहतो मया ॥

2.58.14

गत्वा नद्यास् ततस् तीरम् अपश्यम् इषुणा हृदि
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥

2.58.15

भगवञ् शब्दम् आलक्ष्य मया गजजिघांसुना
विसृष्टो ऽम्भसि नाराचस् तेन ते निहतः सुतः ॥

2.58.16

स चोद्धृतेन बाणेन तत्रैव स्वर्गम् आस्थितः
भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥

2.58.17

अज्ञानाद् भवतः पुत्रः सहसाभिहतो मया
शेषम् एवंगते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥

2.58.18

स तच् छ्रुत्वा वचः क्रूरं निःश्वसञ् शोककर्शितः
माम् उवाच महातेजाः कृताञ्जलिम् उपस्थितम् ॥

2.58.19

यद्य् एतद् अशुभं कर्म न स्म मे कथयेः स्वयम्
फलेन् मूर्धा स्म ते राजन् सद्यः शतसहस्रधा ॥

2.58.20

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः
ज्ञानपूर्वं कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥

2.58.21

अज्ञानाद्धि कृतं यस्माद् इदं तेनैव जीवसि
अपि ह्य् अद्य कुलं न स्याद् राघवाणां कुतो भवान् ॥

2.58.22

नय नौ नृप तं देशम् इति मां चाभ्यभाषत
अद्य तं द्रष्टुम् इच्छावः पुत्रं पश्चिमदर्शनम् ॥

2.58.23

रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससम्
शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् ॥

2.58.24

अथाहम् एकस् तं देशं नीत्वा तौ भृशदुःखितौ
अस्पर्शयम् अहं पुत्रं तं मुनिं सह भार्यया ॥

2.58.25

तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ
निपेततुः शरीरे ऽस्य पिता चास्येदम् अब्रवीत् ॥

2.58.26

न न्व् अहं ते प्रियः पुत्र मातरं पश्य धार्मिक
किं नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥

2.58.27

कस्य वापररात्रे ऽहं श्रोष्यामि हृदयंगमम्
अधीयानस्य मधुरं शास्त्रं वान्यद् विशेषतः ॥

2.58.28

को मां संध्याम् उपास्यैव स्नात्वा हुतहुताशनः
श्लाघयिष्यत्य् उपासीनः पुत्रशोकभयार्दितम् ॥

2.58.29

कन्दमूलफलं हृत्वा को मां प्रियम् इवातिथिम्
भोजयिष्यत्य् अकर्मण्यम् अप्रग्रहम् अनायकम् ॥

2.58.30

इमाम् अन्धां च वृद्धां च मातरं ते तपस्विनीम्
कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥

2.58.31

तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति
श्वो मया सह गन्तासि जनन्या च समेधितः ॥

2.58.32

उभाव् अपि च शोकार्ताव् अनाथौ कृपणौ वने
क्षिप्रम् एव गमिष्यावस् त्वया हीनौ यमक्षयम् ॥

2.58.33

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्
क्षमतां धर्मराजो मे बिभृयात् पितराव् अयम् ॥

2.58.34

अपापो ऽसि यथा पुत्र निहतः पापकर्मणा
तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥

2.58.35

यान्ति शूरा गतिं यां च संग्रामेष्व् अनिवर्तिनः
हतास् त्व् अभिमुखाः पुत्र गतिं तां परमां व्रज ॥

2.58.36

यां गतिं सगरः शैब्यो दिलीपो जनमेजयः
नहुषो धुन्धुमारश् च प्राप्तास् तां गच्छ पुत्रक ॥

2.58.37

या गतिः सर्वसाधूनां स्वाध्यायात् तपसा च या
भूमिदस्याहिताग्नेश् च एकपत्नीव्रतस्य च ॥

2.58.38

गोसहस्रप्रदातॄणां या या गुरुभृताम् अपि
देहन्यासकृतां या च तां गतिं गच्छ पुत्रक
न हि त्व् अस्मिन् कुले जातो गच्छत्य् अकुशलां गतिम् ॥

2.58.39

एवं स कृपणं तत्र पर्यदेवयतासकृत्
ततो ऽस्मै कर्तुम् उदकं प्रवृत्तः सह भार्यया ॥

2.58.40

स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः
आश्वास्य च मुहूर्तं तु पितरौ वाक्यम् अब्रवीत् ॥

2.58.41

स्थानम् अस्मि महत् प्राप्तो भवतोः परिचारणात्
भवन्ताव् अपि च क्षिप्रं मम मूलम् उपैष्यतः ॥

2.58.42

एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता
आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥

2.58.43

स कृत्वा तूदकं तूर्णं तापसः सह भार्यया
माम् उवाच महातेजाः कृताञ्जलिम् उपस्थितम् ॥

2.58.44

अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा
यच् छरेणैकपुत्रं मां त्वम् अकार्षीर् अपुत्रकम् ॥

2.58.45

त्वया तु यद् अविज्ञानान् निहतो मे सुतः शुचिः
तेन त्वाम् अभिशप्स्यामि सुदुःखम् अतिदारुणम् ॥

2.58.46

पुत्रव्यसनजं दुःखं यद् एतन् मम साम्प्रतम्
एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ॥

2.58.47

तस्मान् माम् आगतं भद्रे तस्योदारस्य तद्वचः
यद् अहं पुत्रशोकेन संत्यक्ष्याम्य् अद्य जीवितम् ॥

2.58.48

यदि मां संस्पृशेद् रामः सकृद् अद्यालभेत वा
न तन् मे सदृशं देवि यन् मया राघवे कृतम् ॥

2.58.49

चक्षुषा त्वां न पश्यामि स्मृतिर् मम विलुप्यते
दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ॥

2.58.50

अतस् तु किं दुःखतरं यद् अहं जीवितक्षये
न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥

2.58.51

न ते मनुष्या देवास् ते ये चारुशुभकुण्डलम्
मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥

2.58.52

पद्मपत्त्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम्
धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ॥

2.58.53

सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ॥

2.58.54

निवृत्तवनवासं तम् अयोध्यां पुनर् आगतम्
द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा ॥

2.58.55

अयम् आत्मभवः शोको माम् अनाथम् अचेतनम्
संसादयति वेगेन यथा कूलं नदीरयः ॥

2.58.56

हा राघव महाबाहो हा ममायासनाशन
राजा दशरथः शोचञ् जीवितान्तम् उपागमत् ॥

2.58.57

तथा तु दीनं कथयन् नराधिपः प्रियस्य पुत्रस्य विवासनातुरः
गते ऽर्धरात्रे भृशदुःखपीडितस् तदा जहौ प्राणम् उदारदर्शनः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc