रामायण (संशोधित पाठ) · अध्याय 2.57
रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः
अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥
रामलक्ष्मणयोश् चैव विवासाद् वासवोपमम्
आविवेशोपसर्गस् तं तमः सूर्यम् इवासुरम् ॥
स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम्
अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम्
कौसल्यां पुत्रशोकार्ताम् इदं वचनम् अब्रवीत् ॥
यद् आचरति कल्याणि शुभं वा यदि वाशुभम्
तद् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥
गुरुलाघवम् अर्थानाम् आरम्भे कर्मणां फलम्
दोषं वा यो न जानाति स बाल इति होच्यते ॥
कश्चिद् आम्रवणं छित्त्वा पलाशांश् च निषिञ्चति
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥
सो ऽहम् आम्रवणं छित्त्वा पलाशांश् च न्यषेचयम्
रामं फलागमे त्यक्त्वा पश्चाच् छोचामि दुर्मतिः ॥
लब्धशब्देन कौसल्ये कुमारेण धनुष्मता
कुमारः शब्दवेधीति मया पापम् इदं कृतम्
तद् इदं मे ऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् ॥
सम्मोहाद् इह बालेन यथा स्याद् भक्षितं विषम्
एवं ममाप्य् अविज्ञातं शब्दवेध्यमयं फलम् ॥
देव्य् अनूढा त्वम् अभवो युवराजो भवाम्य् अहम्
ततः प्रावृड् अनुप्राप्ता मदकामविवर्धिनी ॥
उपास्य हि रसान् भौमांस् तप्त्वा च जगद् अंशुभिः
परेताचरितां भीमां रविर् आविशते दिशम् ॥
उष्णम् अन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः
ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः ॥
पतितेनाम्भसा छन्नः पतमानेन चासकृत्
आबभौ मत्तसारङ्गस् तोयराशिर् इवाचलः ॥
तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी
व्यायामकृतसंकल्पः सरयूम् अन्वगां नदीम् ॥
निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम्
अन्यं वा श्वापदं कंचिज् जिघांसुर् अजितेन्द्रियः ॥
अथान्धकारे त्व् अश्रौषं जले कुम्भस्य पूर्यतः
अचक्षुर् विषये घोषं वारणस्येव नर्दतः ॥
ततो ऽहं शरम् उद्धृत्य दीप्तम् आशीविषोपमम्
अमुञ्चं निशितं बाणम् अहम् आशीविषोपमम् ॥
तत्र वाग् उषसि व्यक्ता प्रादुरासीद् वनौकसः
हा हेति पततस् तोये वाग् अभूत् तत्र मानुषी
कथम् अस्मद्विधे शस्त्रं निपतेत् तु तपस्विनि ॥
प्रविविक्तां नदीं रात्राव् उदाहारो ऽहम् आगतः
इषुणाभिहतः केन कस्य वा किं कृतं मया ॥
ऋषेर् हि न्यस्तदण्डस्य वने वन्येन जीवतः
कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥
जटाभारधरस्यैव वल्कलाजिनवाससः
को वधेन ममार्थी स्यात् किं वास्यापकृतं मया ॥
एवं निष्फलम् आरब्धं केवलानर्थसंहितम्
न कश्चित् साधु मन्येत यथैव गुरुतल्पगम् ॥
नेमं तथानुशोचामि जीवितक्षयम् आत्मनः
मातरं पितरं चोभाव् अनुशोचामि मद्विधे ॥
तद् एतन् मिथुनं वृद्धं चिरकालभृतं मया
मयि पञ्चत्वम् आपन्ने कां वृत्तिं वर्तयिष्यति ॥
वृद्धौ च मातापितराव् अहं चैकेषुणा हतः
केन स्म निहताः सर्वे सुबालेनाकृतात्मना ॥
तां गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः
कराभ्यां सशरं चापं व्यथितस्यापतद् भुवि ॥
तं देशम् अहम् आगम्य दीनसत्त्वः सुदुर्मनाः
अपश्यम् इषुणा तीरे सरय्वास् तापसं हतम् ॥
स माम् उद्वीक्ष्य नेत्राभ्यां त्रस्तम् अस्वस्थचेतसम्
इत्य् उवाच वचः क्रूरं दिधक्षन्न् इव तेजसा ॥
किं तवापकृतं राजन् वने निवसता मया
जिहीर्षुर् अम्भो गुर्वर्थं यद् अहं ताडितस् त्वया ॥
एकेन खलु बाणेन मर्मण्य् अभिहते मयि
द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥
तौ नूनं दुर्बलाव् अन्धौ मत्प्रतीक्षौ पिपासितौ
चिरम् आशाकृतां तृष्णां कष्टां संधारयिष्यतः ॥
न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा
पिता यन् मां न जानाति शयानं पतितं भुवि ॥
जानन्न् अपि च किं कुर्याद् अशक्तिर् अपरिक्रमः
भिद्यमानम् इवाशक्तस् त्रातुम् अन्यो नगो नगम् ॥
पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव
न त्वाम् अनुदहेत् क्रुद्धो वनं वह्निर् इवैधितः ॥
इयम् एकपदी राजन् यतो मे पितुर् आश्रमः
तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् ॥
विशल्यं कुरु मां राजन् मर्म मे निशितः शरः
रुणद्धि मृदु सोत्सेधं तीरम् अम्बुरयो यथा ॥
न द्विजातिर् अहं राजन् मा भूत् ते मनसो व्यथा
शूद्रायाम् अस्मि वैश्येन जातो जनपदाधिप ॥
इतीव वदतः कृच्छ्राद् बाणाभिहतमर्मणः
तस्य त्व् आनम्यमानस्य तं बाणम् अहम् उद्धरम् ॥
जलार्द्रगात्रं तु विलप्य कृच्छ्रान् मर्मव्रणं संततम् उच्छ्वसन्तम्
ततः सरय्वां तम् अहं शयानं समीक्ष्य भद्रे सुभृशं विषण्णः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0