रामायण (संशोधित पाठ) · अध्याय 2.56
एवं तु क्रुद्धया राजा राममात्रा सशोकया
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम्
यद् अनेन कृतं पूर्वम् अज्ञानाच् छब्दवेधिना ॥
अमनास् तेन शोकेन रामशोकेन च प्रभुः
दह्यमानस् तु शोकाभ्यां कौसल्याम् आह भूपतिः ॥
प्रसादये त्वां कौसल्ये रचितो ऽयं मयाञ्जलिः
वत्सला चानृशंसा च त्वं हि नित्यं परेष्व् अपि ॥
भर्ता तु खलु नारीणां गुणवान् निर्गुणो ऽपि वा
धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा
नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् ॥
तद् वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्
कौसल्या व्यसृजद् बाष्पं प्रणालीव नवोदकम् ॥
स मूर्ध्नि बद्ध्वा रुदती राज्ञः पद्मम् इवाञ्जलिम्
सम्भ्रमाद् अब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥
प्रसीद शिरसा याचे भूमौ निपतितास्मि ते
याचितास्मि हता देव हन्तव्याहं न हि त्वया ॥
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता
उभयोर् लोकयोर् वीर पत्या या संप्रसाद्यते ॥
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम्
पुत्रशोकार्तया तत् तु मया किम् अपि भाषितम् ॥
शोको नाशयते धैर्यं शोको नाशयते श्रुतम्
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥
शयम् आपतितः सोढुं प्रहरो रिपुहस्ततः
सोढुम् आपतितः शोकः सुसूक्ष्मो ऽपि न शक्यते ॥
वनवासाय रामस्य पञ्चरात्रो ऽद्य गण्यते
यः शोकहतहर्षायाः पञ्चवर्षोपमो मम ॥
तं हि चिन्तयमानायाः शोको ऽयं हृदि वर्धते
अदीनाम् इव वेगेन समुद्रसलिलं महत् ॥
एवं हि कथयन्त्यास् तु कौसल्यायाः शुभं वचः
मन्दरश्मिर् अभूत् सुर्यो रजनी चाभ्यवर्तत ॥
अथ प्रह्लादितो वाक्यैर् देव्या कौसल्यया नृपः
शोकेन च समाक्रान्तो निद्राया वशम् एयिवान् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0