भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.55

2.55.1

वनं गते धर्मपरे रामे रमयतां वरे
कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥

2.55.2

यद्यपि त्रिषु लोकेषु प्रथितं ते महद् यशः
सानुक्रोशो वदान्यश् च प्रियवादी च राघवः ॥

2.55.3

कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया
दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥

2.55.4

सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता
कथम् उष्णं च शीतं च मैथिली प्रसहिष्यते ॥

2.55.5

भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्
वन्यं नैवारम् आहारं कथं सीतोपभोक्ष्यते ॥

2.55.6

गीतवादित्रनिर्घोषं श्रुत्वा शुभम् अनिन्दिता
कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्य् अशोभनम् ॥

2.55.7

महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः
भुजं परिघसंकाशम् उपधाय महाबलः ॥

2.55.8

पद्मवर्णं सुकेशान्तं पद्मनिःश्वासम् उत्तमम्
कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥

2.55.9

वज्रसारमयं नूनं हृदयं मे न संशयः
अपश्यन्त्या न तं यद् वै फलतीदं सहस्रधा ॥

2.55.10

यदि पञ्चदशे वर्षे राघवः पुनर् एष्यति
जह्याद् राज्यं च कोशं च भरतेनोपभोक्ष्यते ॥

2.55.11

एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते
भ्राता ज्येष्ठो वरिष्ठश् च किमर्थं नावमंस्यते ॥

2.55.12

न परेणाहृतं भक्ष्यं व्याघ्रः खादितुम् इच्छति
एवम् एव नरव्याघ्रः परलीढं न मंस्यते ॥

2.55.13

हविर् आज्यं पुरोडाशाः कुशा यूपाश् च खादिराः
नैतानि यातयामानि कुर्वन्ति पुनर् अध्वरे ॥

2.55.14

तथा ह्य् आत्तम् इदं राज्यं हृतसारां सुराम् इव
नाभिमन्तुम् अलं रामो नष्टसोमम् इवाध्वरम् ॥

2.55.15

नैवंविधम् असत्कारं राघवो मर्षयिष्यति
बलवान् इव शार्दूलो वालधेर् अभिमर्शनम् ॥

2.55.16

स तादृशः सिंहबलो वृषभाक्षो नरर्षभः
स्वयम् एव हतः पित्रा जलजेनात्मजो यथा ॥

2.55.17

द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः
यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥

2.55.18

गतिर् एका पतिर् नार्या द्वितीया गतिर् आत्मजः
तृतीया ज्ञातयो राजंश् चतुर्थी नेह विद्यते ॥

2.55.19

तत्र त्वं चैव मे नास्ति रामश् च वनम् आश्रितः
न वनं गन्तुम् इच्छामि सर्वथा हि हता त्वया ॥

2.55.20

हतं त्वया राज्यम् इदं सराष्ट्रं हतस् तथात्मा सह मन्त्रिभिश् च
हता सपुत्रास्मि हताश् च पौराः सुतश् च भार्या च तव प्रहृष्टौ ॥

2.55.21

इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः
ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस् तदास्मरत् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc