भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.54

2.54.1

ततो भूतोपसृष्टेव वेपमाना पुनः पुनः
धरण्यां गतसत्त्वेव कौसल्या सूतम् अब्रवीत् ॥

2.54.2

नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः
तान् विना क्षणम् अप्य् अत्र जीवितुं नोत्सहे ह्य् अहम् ॥

2.54.3

निवर्तय रथं शीघ्रं दण्डकान् नय माम् अपि
अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम् ॥

2.54.4

बाष्पवेगोपहतया स वाचा सज्जमानया
इदम् आश्वासयन् देवीं सूतः प्राञ्जलिर् अब्रवीत् ॥

2.54.5

त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा
व्यवधूय च संतापं वने वत्स्यति राघवः ॥

2.54.6

लक्ष्मणश् चापि रामस्य पादौ परिचरन् वने
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥

2.54.7

विजने ऽपि वने सीता वासं प्राप्य गृहेष्व् इव
विस्रम्भं लभते ऽभीता रामे संन्यस्तमानसा ॥

2.54.8

नास्या दैन्यं कृतं किंचित् सुसूक्ष्मम् अपि लक्षये
उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥

2.54.9

नगरोपवनं गत्वा यथा स्म रमते पुरा
तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥

2.54.10

बालेव रमते सीता बालचन्द्रनिभानना
रामा रामे ह्य् अधीनात्मा विजने ऽपि वने सती ॥

2.54.11

तद्गतं हृदयं ह्य् अस्यास् तदधीनं च जीवितम्
अयोध्यापि भवेत् तस्या रामहीना तथा वनम् ॥

2.54.12

पथि पृच्छति वैदेही ग्रामांश् च नगराणि च
गतिं दृष्ट्वा नदीनां च पादपान् विविधान् अपि ॥

2.54.13

अध्वना वातवेगेन सम्भ्रमेणातपेन च
न हि गच्छति वैदेह्याश् चन्द्रांशुसदृशी प्रभा ॥

2.54.14

सदृशं शतपत्त्रस्य पूर्णचन्द्रोपमप्रभम्
वदनं तद्वदान्याया वैदेह्या न विकम्पते ॥

2.54.15

अलक्तरसरक्ताभाव् अलक्तरसवर्जितौ
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ॥

2.54.16

नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी
इदानीम् अपि वैदेही तद्रागा न्यस्तभूषणा ॥

2.54.17

गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनम् आश्रिता
नाहारयति संत्रासं बाहू रामस्य संश्रिता ॥

2.54.18

न शोच्यास् ते न चात्मा ते शोच्यो नापि जनाधिपः
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥

2.54.19

विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः
वने रता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते ॥

2.54.20

तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता
न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc