भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.53

2.53.1

मम त्व् अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि
उष्णम् अश्रु विमुञ्चन्तो रामे सम्प्रस्थिते वनम् ॥

2.53.2

उभाभ्यां राजपुत्राभ्याम् अथ कृत्वाहम् अञ्जलिम्
प्रस्थितो रथम् आस्थाय तद् दुःखम् अपि धारयन् ॥

2.53.3

गुहेन सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून्
आशया यदि मां रामः पुनः शब्दापयेद् इति ॥

2.53.4

विषये ते महाराज रामव्यसनकर्शिताः
अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः ॥

2.53.5

न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च
रामशोकाभिभूतं तन् निष्कूजम् अभवद् वनम् ॥

2.53.6

लीनपुष्करपत्त्राश् च नरेन्द्र कलुषोदकाः
संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः ॥

2.53.7

जलजानि च पुष्पाणि माल्यानि स्थलजानि च
नाद्य भान्त्य् अल्पगन्धीनि फलानि च यथा पुरम् ॥

2.53.8

प्रविशन्तम् अयोध्यां मां न कश्चिद् अभिनन्दति
नरा रामम् अपश्यन्तो निःश्वसन्ति मुहुर् मुहुः ॥

2.53.9

हर्म्यैर् विमानैः प्रासादैर् अवेक्ष्य रथम् आगतम्
हाहाकारकृता नार्यो रामादर्शनकर्शिताः ॥

2.53.10

आयतैर् विमलैर् नेत्रैर् अश्रुवेगपरिप्लुतैः
अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥

2.53.11

नामित्राणां न मित्राणाम् उदासीनजनस्य च
अहम् आर्ततया कंचिद् विशेषं नोपलक्षये ॥

2.53.12

अप्रहृष्टमनुष्या च दीननागतुरंगमा
आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना ॥

2.53.13

निरानन्दा महाराज रामप्रव्राजनातुरा
कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥

2.53.14

सूतस्य वचनं श्रुत्वा वाचा परमदीनया
बाष्पोपहतया राजा तं सूतम् इदम् अब्रवीत् ॥

2.53.15

कैकेय्या विनियुक्तेन पापाभिजनभावया
मया न मन्त्रकुशलैर् वृद्धैः सह समर्थितम् ॥

2.53.16

न सुहृद्भिर् न चामात्यैर् मन्त्रयित्वा न नैगमैः
मयायम् अर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः ॥

2.53.17

भवितव्यतया नूनम् इदं वा व्यसनं महत्
कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥

2.53.18

सूत यद्य् अस्ति ते किंचिन् मयापि सुकृतं कृतम्
त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् ॥

2.53.19

यद् यद् यापि ममैवाज्ञा निवर्तयतु राघवम्
न शक्ष्यामि विना रामं मुहूर्तम् अपि जीवितुम् ॥

2.53.20

अथ वापि महाबाहुर् गतो दूरं भविष्यति
माम् एव रथम् आरोप्य शीघ्रं रामाय दर्शय ॥

2.53.21

वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः
यदि जीवामि साध्व् एनं पश्येयं सह सीतया ॥

2.53.22

लोहिताक्षं महाबाहुम् आमुक्तमणिकुण्डलम्
रामं यदि न पश्यामि गमिष्यामि यमक्षयम् ॥

2.53.23

अतो नु किं दुःखतरं यो ऽहम् इक्ष्वाकुनन्दनम्
इमाम् अवस्थाम् आपन्नो नेह पश्यामि राघवम् ॥

2.53.24

हा राम रामानुज हा हा वैदेहि तपस्विनि
न मां जानीत दुःखेन म्रियमाणम् अनाथवत्
दुस्तरो जीवता देवि मयायं शोकसागरः ॥

2.53.25

अशोभनं यो ऽहम् इहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम्
इतीव राजा विलपन् महायशाः पपात तूर्णं शयने स मूर्छितः ॥

2.53.26

इति विलपति पार्थिवे प्रनष्टे करुणतरं द्विगुणं च रामहेतोः
वचनम् अनुनिशम्य तस्य देवी भयम् अगमत् पुनर् एव राममाता ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc