भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.52

2.52.1

प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः
अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ॥

2.52.2

वृद्धं परमसंतप्तं नवग्रहम् इव द्विपम्
विनिःश्वसन्तं ध्यायन्तम् अस्वस्थम् इव कुञ्जरम् ॥

2.52.3

राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम्
अश्रुपूर्णमुखं दीनम् उवाच परमार्तवत् ॥

2.52.4

क्व नु वत्स्यति धर्मात्मा वृक्षमूलम् उपाश्रितः
सो ऽत्यन्तसुखितः सूत किम् अशिष्यति राघवः
भूमिपालात्मजो भूमौ शेते कथम् अनाथवत् ॥

2.52.5

यं यान्तम् अनुयान्ति स्म पदातिरथकुञ्जराः
स वत्स्यति कथं रामो विजनं वनम् आश्रितः ॥

2.52.6

व्यालैर् मृगैर् आचरितं कृष्णसर्पनिषेवितम्
कथं कुमारौ वैदेह्या सार्धं वनम् उपस्थितौ ॥

2.52.7

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया
राजपुत्रौ कथं पादैर् अवरुह्य रथाद् गतौ ॥

2.52.8

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ
वनान्तं प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥

2.52.9

किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः
सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली
आसितं शयितं भुक्तं सूत रामस्य कीर्तय ॥

2.52.10

इति सूतो नरेन्द्रेण चोदितः सज्जमानया
उवाच वाचा राजानं सबाष्पपरिरब्धया ॥

2.52.11

अब्रवीन् मां महाराज धर्मम् एवानुपालयन्
अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च ॥

2.52.12

सूत मद्वचनात् तस्य तातस्य विदितात्मनः
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥

2.52.13

सर्वम् अन्तःपुरं वाच्यं सूत मद्वचनात् त्वया
आरोग्यम् अविशेषेण यथार्हं चाभिवादनम् ॥

2.52.14

माता च मम कौसल्या कुशलं चाभिवादनम्
देवि देवस्य पादौ च देववत् परिपालय ॥

2.52.15

भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च
सर्वास्व् एव यथान्यायं वृत्तिं वर्तस्व मातृषु ॥

2.52.16

वक्तव्यश् च महाबाहुर् इक्ष्वाकुकुलनन्दनः
पितरं यौवराज्यस्थो राज्यस्थम् अनुपालय ॥

2.52.17

इत्य् एवं मां महाराज ब्रुवन्न् एव महायशाः
रामो राजीवताम्राक्षो भृशम् अश्रूण्य् अवर्तयत् ॥

2.52.18

लक्ष्मणस् तु सुसंक्रुद्धो निःश्वसन् वाक्यम् अब्रवीत्
केनायम् अपराधेन राजपुत्रो विवासितः ॥

2.52.19

यदि प्रव्राजितो रामो लोभकारणकारितम्
वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम्
रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥

2.52.20

असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात्
जनयिष्यति संक्रोशं राघवस्य विवासनम् ॥

2.52.21

अहं तावन् महाराजे पितृत्वं नोपलक्षये
भ्राता भर्ता च बन्धुश् च पिता च मम राघवः ॥

2.52.22

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम्
सर्वलोको ऽनुरज्येत कथं त्वानेन कर्मणा ॥

2.52.23

जानकी तु महाराज निःश्वसन्ती तपस्विनी
भूतोपहतचित्तेव विष्ठिता विस्मृता स्थिता ॥

2.52.24

अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी
तेन दुःखेन रुदती नैव मां किंचिद् अब्रवीत् ॥

2.52.25

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता
मुमोच सहसा बाष्पं मां प्रयान्तम् उदीक्ष्य सा ॥

2.52.26

तथैव रामो ऽश्रुमुखः कृताञ्जलिः स्थितो ऽभवल् लक्ष्मणबाहुपालितः
तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc