भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.51

2.51.1

कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह
रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥

2.51.2

अनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हयोत्तमान्
अयोध्याम् एव नगरीं प्रययौ गाढदुर्मनाः ॥

2.51.3

स वनानि सुगन्धीनि सरितश् च सरांसि च
पश्यन्न् अतिययौ शीघ्रं ग्रामाणि नगराणि च ॥

2.51.4

ततः सायाह्नसमये तृतीये ऽहनि सारथिः
अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥

2.51.5

स शून्याम् इव निःशब्दां दृष्ट्वा परमदुर्मनाः
सुमन्त्रश् चिन्तयामास शोकवेगसमाहतः ॥

2.51.6

कच्चिन् न सगजा साश्वा सजना सजनाधिपा
रामसंतापदुःखेन दग्धा शोकाग्निना पुरी
इति चिन्तापरः सूतस् त्वरितः प्रविवेश ह ॥

2.51.7

सुमन्त्रम् अभियान्तं तं शतशो ऽथ सहस्रशः
क्व राम इति पृच्छन्तः सूतम् अभ्यद्रवन् नराः ॥

2.51.8

तेषां शशंस गङ्गायाम् अहम् आपृच्छ्य राघवम्
अनुज्ञातो निवृत्तो ऽस्मि धार्मिकेण महात्मना ॥

2.51.9

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः
अहो धिग् इति निःश्वस्य हा रामेति च चुक्रुशुः ॥

2.51.10

शुश्राव च वचस् तेषां वृन्दं वृन्दं च तिष्ठताम्
हताः स्म खलु ये नेह पश्याम इति राघवम् ॥

2.51.11

दानयज्ञविवाहेषु समाजेषु महत्सु च
न द्रक्ष्यामः पुनर् जातु धार्मिकं रामम् अन्तरा ॥

2.51.12

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्
इति रामेण नगरं पितृवत् परिपालितम् ॥

2.51.13

वातायनगतानां च स्त्रीणाम् अन्वन्तरापणम्
रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥

2.51.14

स राजमार्गमध्येन सुमन्त्रः पिहिताननः
यत्र राजा दशरथस् तद् एवोपययौ गृहम् ॥

2.51.15

सो ऽवतीर्य रथाच् छीघ्रं राजवेश्म प्रविश्य च
कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥

2.51.16

ततो दशरथस्त्रीणां प्रासादेभ्यस् ततस् ततः
रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥

2.51.17

सह रामेण निर्यातो विना रामम् इहागतः
सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥

2.51.18

यथा च मन्ये दुर्जीवम् एवं न सुकरं ध्रुवम्
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥

2.51.19

सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन्
प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥

2.51.20

स प्रविश्याष्टमीं कक्ष्यां राजानं दीनम् आतुरम्
पुत्रशोकपरिद्यूनम् अपश्यत् पाण्डुरे गृहे ॥

2.51.21

अभिगम्य तम् आसीनं नरेन्द्रम् अभिवाद्य च
सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥

2.51.22

स तूष्णीम् एव तच् छ्रुत्वा राजा विभ्रान्तचेतनः
मूर्छितो न्यपतद् भूमौ रामशोकाभिपीडितः ॥

2.51.23

ततो ऽन्तःपुरम् आविद्धं मूर्छिते पृथिवीपतौ
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥

2.51.24

सुमित्रया तु सहिता कौसल्या पतितं पतिम्
उत्थापयामास तदा वचनं चेदम् अब्रवीत् ॥

2.51.25

इमं तस्य महाभाग दूतं दुष्करकारिणः
वनवासाद् अनुप्राप्तं कस्मान् न प्रतिभाषसे ॥

2.51.26

अद्येमम् अनयं कृत्वा व्यपत्रपसि राघव
उत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता ॥

2.51.27

देव यस्या भयाद् रामं नानुपृच्छसि सारथिम्
नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् ॥

2.51.28

सा तथोक्त्वा महाराजं कौसल्या शोकलालसा
धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥

2.51.29

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि
पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः ॥

2.51.30

ततस् तम् अन्तःपुरनादम् उत्थितं समीक्ष्य वृद्धास् तरुणाश् च मानवाः
स्त्रियश् च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनर् एव संकुलम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc