रामायण (संशोधित पाठ) · अध्याय 2.50
अथ रात्र्यां व्यतीतायाम् अवसुप्तम् अनन्तरम्
प्रबोधयामास शनैर् लक्ष्मणं रघुनन्दनः ॥
सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम्
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परंतप ॥
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः
जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥
तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम्
पन्थानम् ऋषिणोद्दिष्टं चित्रकूटस्य तं ययुः ॥
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह
सीतां कमलपत्त्राक्षीम् इदं वचनम् अब्रवीत् ॥
आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान्
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥
पश्य भल्लातकान् फुल्लान् नरैर् अनुपसेवितान्
फलपत्त्रैर् अवनतान् नूनं शक्ष्यामि जीवितुम् ॥
पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण
मधूनि मधुकारीभिः संभृतानि नगे नगे ॥
एष क्रोशति नत्यूहस् तं शिखी प्रतिकूजति
रमणीये वनोद्देशे पुष्पसंस्तरसंकटे ॥
मातंगयूथानुसृतं पक्षिसंघानुनादितम्
चित्रकूटम् इमं पश्य प्रवृद्धशिखरं गिरिम् ॥
ततस् तौ पादचारेण गच्छन्तौ सह सीतया
रम्यम् आसेदतुः शैलं चित्रकूटं मनोरमम् ॥
तं तु पर्वतम् आसाद्य नानापक्षिगणायुतम्
अयं वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥
लक्ष्मणानय दारूणि दृढानि च वराणि च
कुरुष्वावसथं सौम्य वासे मे ऽभिरतं मनः ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिर् विविधान् द्रुमान्
आजहार ततश् चक्रे पर्णशालाम् अरिंदमः ॥
शुश्रूषमाणम् एकाग्रम् इदं वचनम् अब्रवीत्
ऐणेयं मांसम् आहृत्य शालां यक्ष्यामहे वयम् ॥
स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान्
अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥
तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम्
लक्ष्मणः पुरुषव्याघ्रम् अथ राघवम् अब्रवीत् ॥
अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगो यथा
देवता देवसंकाश यजस्व कुशलो ह्य् असि ॥
रामः स्नात्वा तु नियतो गुणवाञ् जप्यकोविदः
पापसंशमनं रामश् चकार बलिम् उत्तमम् ॥
तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम्
वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम् ॥
अनेकनानामृगपक्षिसंकुले विचित्रपुष्पस्तबकैर् द्रुमैर् युते
वनोत्तमे व्यालमृगानुनादिते तथा विजह्रुः सुसुखं जितेन्द्रियाः ॥
सुरम्यम् आसाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम्
ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0