रामायण (संशोधित पाठ) · अध्याय 2.5
संदिश्य रामं नृपतिः श्वोभाविन्य् अभिषेचने
पुरोहितं समाहूय वसिष्ठम् इदम् अब्रवीत् ॥
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥
तथेति च स राजानम् उक्त्वा वेदविदां वरः
स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्
तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥
तम् आगतम् ऋषिं रामस् त्वरन्न् इव ससंभ्रमः
मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥
अभ्येत्य त्वरमाणश् च रथाभ्याशं मनीषिणः
ततो ऽवतारयामास परिगृह्य रथात् स्वयम् ॥
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च
प्रियार्हं हर्षयन् रामम् इत्य् उवाच पुरोहितः ॥
प्रसन्नस् ते पिता राम यौवराज्यम् अवाप्स्यसि
उपवासं भवान् अद्य करोतु सह सीतया ॥
प्रातस् त्वाम् अभिषेक्ता हि यौवराज्ये नराधिपः
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥
इत्य् उक्त्वा स तदा रामम् उपवासं यतव्रतम्
मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥
ततो यथावद् रामेण स राज्ञो गुरुर् अर्चितः
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥
सुहृद्भिस् तत्र रामो ऽपि तान् अनुज्ञाप्य सर्वशः
सभाजितो विवेशाथ तान् अनुज्ञाप्य सर्वशः ॥
हृष्टनारीनरयुतं रामवेश्म तदा बभौ
यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥
स राजभवनप्रख्यात् तस्माद् रामनिवेशनात्
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥
वृन्दवृन्दैर् अयोध्यायां राजमार्गाः समन्ततः
बभूवुर् अभिसंबाधाः कुतूहलजनैर् वृताः ॥
जनवृन्दोर्मिसंघर्ष हर्षस्वनवतस् तदा
बभूव राजमार्गस्य सागरस्येव निस्वनः ॥
सिक्तसंमृष्टरथ्या हि तद् अहर् वनमालिनी
आसीद् अयोध्या नगरी समुच्छ्रितगृहध्वजा ॥
तदा ह्य् अयोध्यानिलयः सस्त्रीबालाबलो जनः
रामाभिषेकम् आकाङ्क्षन्न् आकाङ्क्षन्न् उदयं रवेः ॥
प्रजालंकारभूतं च जनस्यानन्दवर्धनम्
उत्सुको ऽभूज् जनो द्रष्टुं तम् अयोध्यामहोत्सवम् ॥
एवं तं जनसम्बाधं राजमार्गं पुरोहितः
व्यूहन्न् इव जनौघं तं शनै राजकुलं ययौ ॥
सिताभ्रशिखरप्रख्यं प्रासादम् अधिरुह्य सः
समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥
तम् आगतम् अभिप्रेक्ष्य हित्वा राजासनं नृपः
पप्रच्छ स च तस्मै तत् कृतम् इत्य् अभ्यवेदयत् ॥
गुरुणा त्व् अभ्यनुज्ञातो मनुजौघं विसृज्य तम्
विवेशान्तःपुरं राजा सिंहो गिरिगुहाम् इव ॥
तद् अग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्
विदीपयंश् चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0