रामायण (संशोधित पाठ) · अध्याय 2.4
गतेष्व् अथ नृपो भूयः पौरेषु सह मन्त्रिभिः
मन्त्रयित्वा ततश् चक्रे निश्चयज्ञः स निश्चयम् ॥
श्व एव पुष्यो भविता श्वो ऽभिषेच्यस् तु मे सुतः
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥
अथान्तर्गृहम् आविश्य राजा दशरथस् तदा
सूतम् आज्ञापयामास रामं पुनर् इहानय ॥
प्रतिगृह्य स तद्वाक्यं सूतः पुनर् उपाययौ
रामस्य भवनं शीघ्रं रामम् आनयितुं पुनः ॥
द्वाःस्थैर् आवेदितं तस्य रामायागमनं पुनः
श्रुत्वैव चापि रामस् तं प्राप्तं शङ्कान्वितो ऽभवत् ॥
प्रवेश्य चैनं त्वरितं रामो वचनम् अब्रवीत्
यद् आगमनकृत्यं ते भूयस् तद् ब्रूह्य् अशेषतः ॥
तम् उवाच ततः सूतो राजा त्वां द्रष्टुम् इच्छति
श्रुत्वा प्रमाणम् अत्र त्वं गमनायेतराय वा ॥
इति सूतवचः श्रुत्वा रामो ऽथ त्वरयान्वितः
प्रययौ राजभवनं पुनर् द्रष्टुं नरेश्वरम् ॥
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः
प्रवेशयामास गृहं विविक्षुः प्रियम् उत्तमम् ॥
प्रविशन्न् एव च श्रीमान् राघवो भवनं पितुः
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः ॥
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः
प्रदिश्य चास्मै रुचिरम् आसनं पुनर् अब्रवीत् ॥
राम वृद्धो ऽस्मि दीर्घायुर् भुक्ता भोगा मयेप्सिताः
अन्नवद्भिः क्रतुशतैस् तथेष्टं भूरिदक्षिणैः ॥
जातम् इष्टम् अपत्यं मे त्वम् अद्यानुपमं भुवि
दत्तम् इष्टम् अधीतं च मया पुरुषसत्तम ॥
अनुभूतानि चेष्टानि मया वीर सुखानि च
देवर्षिपितृविप्राणाम् अनृणो ऽस्मि तथात्मनः ॥
न किंचिन् मम कर्तव्यं तवान्यत्राभिषेचनात्
अतो यत् त्वाम् अहं ब्रूयां तन् मे त्वं कर्तुम् अर्हसि ॥
अद्य प्रकृतयः सर्वास् त्वाम् इच्छन्ति नराधिपम्
अतस् त्वां युवराजानम् अभिषेक्ष्यामि पुत्रक ॥
अपि चाद्याशुभान् राम स्वप्नान् पश्यामि दारुणान्
सनिर्घाता महोल्काश् च पतन्तीह महास्वनाः ॥
अवष्टब्धं च मे राम नक्षत्रं दारुणैर् ग्रहैः
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥
प्रायेण हि निमित्तानाम् ईदृशानां समुद्भवे
राजा वा मृत्युम् आप्नोति घोरां वापदम् ऋच्छति ॥
तद् यावद् एव मे चेतो न विमुह्यति राघव
तावद् एवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥
अद्य चन्द्रो ऽभ्युपगतः पुष्यात् पूर्वं पुनर् वसुम्
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥
तत्र पुष्ये ऽभिषिञ्चस्व मनस् त्वरयतीव माम्
श्वस् त्वाहम् अभिषेक्ष्यामि यौवराज्ये परंतप ॥
तस्मात् त्वयाद्य व्रतिना निशेयं नियतात्मना
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥
सुहृदश् चाप्रमत्तास् त्वां रक्षन्त्व् अद्य समन्ततः
भवन्ति बहुविघ्नानि कार्याण्य् एवंविधानि हि ॥
विप्रोषितश् च भरतो यावद् एव पुराद् इतः
तावद् एवाभिषेकस् ते प्राप्तकालो मतो मम ॥
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥
किं तु चित्तं मनुष्याणाम् अनित्यम् इति मे मतिः
सतां च धर्मनित्यानां कृतशोभि च राघव ॥
इत्य् उक्तः सो ऽभ्यनुज्ञातः श्वोभाविन्य् अभिषेचने
व्रजेति रामः पितरम् अभिवाद्याभ्ययाद् गृहम् ॥
प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टे ऽभिषेचने
तस्मिन् क्षणे विनिर्गत्य मातुर् अन्तःपुरं ययौ ॥
तत्र तां प्रवणाम् एव मातरं क्षौमवासिनीम्
वाग्यतां देवतागारे ददर्श याचतीं श्रियम् ॥
प्राग् एव चागता तत्र सुमित्रा लक्ष्मणस् तथा
सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥
तस्मिन् काले हि कौसल्या तस्थाव् आमीलितेक्षणा
सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥
श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम्
प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥
तथा सनियमाम् एव सो ऽभिगम्याभिवाद्य च
उवाच वचनं रामो हर्षयंस् ताम् इदं तदा ॥
अम्ब पित्रा नियुक्तो ऽस्मि प्रजापालनकर्मणि
भविता श्वो ऽभिषेको मे यथा मे शासनं पितुः ॥
सीतयाप्य् उपवस्तव्या रजनीयं मया सह
एवम् ऋत्विगुपाध्यायैः सह माम् उक्तवान् पिता ॥
यानि यान्य् अत्र योग्यानि श्वोभाविन्य् अभिषेचने
तानि मे मङ्गलान्य् अद्य वैदेह्याश् चैव कारय ॥
एतच् छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम्
हर्षबाष्पकलं वाक्यम् इदं रामम् अभाषत ॥
वत्स राम चिरं जीव हतास् ते परिपन्थिनः
ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश् च नन्दय ॥
कल्याणे बत नक्षत्रे मयि जातो ऽसि पुत्रक
येन त्वया दशरथो गुणैर् आराधितः पिता ॥
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे
येयम् इक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥
इत्य् एवम् उक्तो मात्रेदं रामो भ्रातरम् अब्रवीत्
प्राञ्जलिं प्रह्वम् आसीनम् अभिवीक्ष्य स्मयन्न् इव ॥
लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम्
द्वितीयं मे ऽन्तरात्मानं त्वाम् इयं श्रीर् उपस्थिता ॥
सौमित्रे भुङ्क्ष्व भोगांस् त्वम् इष्टान् राज्यफलानि च
जीवितं च हि राज्यं च त्वदर्थम् अभिकामये ॥
इत्य् उक्त्वा लक्ष्मणं रामो मातराव् अभिवाद्य च
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0