भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.47

2.47.1

स तं वृक्षं समासाद्य संध्याम् अन्वास्य पश्चिमाम्
रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ॥

2.47.2

अद्येयं प्रथमा रात्रिर् याता जनपदाद् बहिः
या सुमन्त्रेण रहिता तां नोत्कण्ठितुम् अर्हसि ॥

2.47.3

जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु
योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः ॥

2.47.4

रात्रिं कथंचिद् एवेमां सौमित्रे वर्तयामहे
उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥

2.47.5

स तु संविश्य मेदिन्यां महार्हशयनोचितः
इमाः सौमित्रये रामो व्याजहार कथाः शुभाः ॥

2.47.6

ध्रुवम् अद्य महाराजो दुःखं स्वपिति लक्ष्मण
कृतकामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥

2.47.7

सा हि देवी महाराजं कैकेयी राज्यकारणात्
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥

2.47.8

अनाथश् चैव वृद्धश् च मया चैव विनाकृतः
किं करिष्यति कामात्मा कैकेय्या वशम् आगतः ॥

2.47.9

इदं व्यसनम् आलोक्य राज्ञश् च मतिविभ्रमम्
काम एवार्धधर्माभ्यां गरीयान् इति मे मतिः ॥

2.47.10

को ह्य् अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत्
छन्दानुवर्तिनं पुत्रं तातो माम् इव लक्ष्मण ॥

2.47.11

सुखी बत सभार्यश् च भरतः केकयीसुतः
मुदितान् कोसलान् एको यो भोक्ष्यत्य् अधिराजवत् ॥

2.47.12

स हि सर्वस्य राज्यस्य मुखम् एकं भविष्यति
ताते च वयसातीते मयि चारण्यम् आश्रिते ॥

2.47.13

अर्थधर्मौ परित्यज्य यः कामम् अनुवर्तते
एवम् आपद्यते क्षिप्रं राजा दशरथो यथा ॥

2.47.14

मन्ये दशरथान्ताय मम प्रव्राजनाय च
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥

2.47.15

अपीदानीं न कैकेयी सौभाग्यमदमोहिता
कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते ॥

2.47.16

मा स्म मत्कारणाद् देवी सुमित्रा दुःखम् आवसेत्
अयोध्याम् इत एव त्वं काले प्रविश लक्ष्मण ॥

2.47.17

अहम् एको गमिष्यामि सीतया सह दण्डकान्
अनाथाया हि नाथस् त्वं कौसल्याया भविष्यसि ॥

2.47.18

क्षुद्रकर्मा हि कैकेयी द्वेषाद् अन्याय्यम् आचरेत्
परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥

2.47.19

नूनं जात्यन्तरे कस्मिन् स्त्रियः पुत्रैर् वियोजिताः
जनन्या मम सौमित्रे तद् अप्य् एतद् उपस्थितम् ॥

2.47.20

मया हि चिरपुष्टेन दुःखसंवर्धितेन च
विप्रायुज्यत कौसल्या फलकाले धिग् अस्तु माम् ॥

2.47.21

मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम्
सौमित्रे यो ऽहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥

2.47.22

मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका
यस्यास् तच् छ्रूयते वाक्यं शुक पादम् अरेर् दश ॥

2.47.23

शोचन्त्याश् चाल्पभाग्याया न किंचिद् उपकुर्वता
पुत्रेण किम् अपुत्राया मया कार्यम् अरिंदम ॥

2.47.24

अल्पभाग्या हि मे माता कौसल्या रहिता मया
शेते परमदुःखार्ता पतिता शोकसागरे ॥

2.47.25

एको ह्य् अहम् अयोध्यां च पृथिवीं चापि लक्ष्मण
तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥

2.47.26

अधर्मभयभीतश् च परलोकस्य चानघ
तेन लक्ष्मण नाद्याहम् आत्मानम् अभिषेचये ॥

2.47.27

एतद् अन्यच् च करुणं विलप्य विजने बहु
अश्रुपूर्णमुखो रामो निशि तूष्णीम् उपाविशत् ॥

2.47.28

विलप्योपरतं रामं गतार्चिषम् इवानलम्
समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥

2.47.29

ध्रुवम् अद्य पुरी राम अयोध्यायुधिनां वर
निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥

2.47.30

नैतद् औपयिकं राम यद् इदं परितप्यसे
विषादयसि सीतां च मां चैव पुरुषर्षभ ॥

2.47.31

न च सीता त्वया हीना न चाहम् अपि राघव
मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इवोद्धृतौ ॥

2.47.32

न हि तातं न शत्रुघ्नं न सुमित्रां परंतप
द्रष्टुम् इच्छेयम् अद्याहं स्वर्गं वापि त्वया विना ॥

2.47.33

स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासम् आदरात्
समाः समस्ता विदधे परंतपः प्रपद्य धर्मं सुचिराय राघवः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc