भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.46

2.46.1

प्रभातायां तु शर्वर्यां पृथुवृक्षा महायशाः
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥

2.46.2

भास्करोदयकालो ऽयं गता भगवती निशा
असौ सुकृष्णो विहगः कोकिलस् तात कूजति ॥

2.46.3

बर्हिणानां च निर्घोषः श्रूयते नदतां वने
तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् ॥

2.46.4

विज्ञाय रामस्य वचः सौमित्रिर् मित्रनन्दनः
गुहम् आमन्त्र्य सूतं च सो ऽतिष्ठद् भ्रातुर् अग्रतः ॥

2.46.5

ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ
जग्मतुर् येन तौ गङ्गां सीतया सह राघवौ ॥

2.46.6

रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत्
किम् अहं करवाणीति सूतः प्राञ्जलिर् अब्रवीत् ॥

2.46.7

निवर्तस्वेत्य् उवाचैनम् एतावद्धि कृतं मम
यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥

2.46.8

आत्मानं त्व् अभ्यनुज्ञातम् अवेक्ष्यार्तः स सारथिः
सुमन्त्रः पुरुषव्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥

2.46.9

नातिक्रान्तम् इदं लोके पुरुषेणेह केनचित्
तव सभ्रातृभार्यस्य वासः प्राकृतवद् वने ॥

2.46.10

न मन्ये ब्रह्मचर्ये ऽस्ति स्वधीते वा फलोदयः
मार्दवार्जवयोर् वापि त्वां चेद् व्यसनम् आगतम् ॥

2.46.11

सह राघव वैदेह्या भ्रात्रा चैव वने वसन्
त्वं गतिं प्राप्स्यसे वीर त्रींल् लोकांस् तु जयन्न् इव ॥

2.46.12

वयं खलु हता राम ये तयाप्य् उपवञ्चिताः
कैकेय्या वशम् एष्यामः पापाया दुःखभागिनः ॥

2.46.13

इति ब्रुवन्न् आत्मसमं सुमन्त्रः सारथिस् तदा
दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम् ॥

2.46.14

ततस् तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्
रामस् तु मधुरं वाक्यं पुनः पुनर् उवाच तम् ॥

2.46.15

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये
यथा दशरथो राजा मां न शोचेत् तथा कुरु ॥

2.46.16

शोकोपहतचेताश् च वृद्धश् च जगतीपतिः
कामभारावसन्नश् च तस्माद् एतद् ब्रवीमि ते ॥

2.46.17

यद् यद् आज्ञापयेत् किंचित् स महात्मा महीपतिः
कैकेय्याः प्रियकामार्थं कार्यं तद् अविकाङ्क्षया ॥

2.46.18

एतदर्थं हि राज्यानि प्रशासति नरेश्वराः
यद् एषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥

2.46.19

तद् यथा स महाराजो नालीकम् अधिगच्छति
न च ताम्यति दुःखेन सुमन्त्र कुरु तत् तथा ॥

2.46.20

अदृष्टदुःखं राजानं वृद्धम् आर्यं जितेन्द्रियम्
ब्रूयास् त्वम् अभिवाद्यैव मम हेतोर् इदं वचः ॥

2.46.21

नैवाहम् अनुशोचामि लक्ष्मणो न च मैथिली
अयोध्यायाश् च्युताश् चेति वने वत्स्यामहेति वा ॥

2.46.22

चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः
लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रम् आगतान् ॥

2.46.23

एवम् उक्त्वा तु राजानं मातरं च सुमन्त्र मे
अन्याश् च देवीः सहिताः कैकेयीं च पुनः पुनः ॥

2.46.24

आरोग्यं ब्रूहि कौसल्याम् अथ पादाभिवन्दनम्
सीताया मम चार्यस्य वचनाल् लक्ष्मणस्य च ॥

2.46.25

ब्रूयाश् च हि महाराजं भरतं क्षिप्रम् आनय
आगतश् चापि भरतः स्थाप्यो नृपमते पदे ॥

2.46.26

भरतं च परिष्वज्य यौवराज्ये ऽभिषिच्य च
अस्मत्संतापजं दुःखं न त्वाम् अभिभविष्यति ॥

2.46.27

भरतश् चापि वक्तव्यो यथा राजनि वर्तसे
तथा मातृषु वर्तेथाः सर्वास्व् एवाविशेषतः ॥

2.46.28

यथा च तव कैकेयी सुमित्रा चाविशेषतः
तथैव देवी कौसल्या मम माता विशेषतः ॥

2.46.29

निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः
तत् सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥

2.46.30

यद् अहं नोपचारेण ब्रूयां स्नेहाद् अविक्लवः
भक्तिमान् इति तत् तावद् वाक्यं त्वं क्षन्तुम् अर्हसि ॥

2.46.31

कथं हि त्वद्विहीनो ऽहं प्रतियास्यामि तां पुरीम्
तव तात वियोगेन पुत्रशोकाकुलाम् इव ॥

2.46.32

सरामम् अपि तावन् मे रथं दृष्ट्वा तदा जनः
विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥

2.46.33

दैन्यं हि नगरी गच्छेद् दृष्ट्वा शून्यम् इमं रथम्
सूतावशेषं स्वं सैन्यं हतवीरम् इवाहवे ॥

2.46.34

दूरे ऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्
चिन्तयन्त्यो ऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥

2.46.35

आर्तनादो हि यः पौरैर् मुक्तस् तद्विप्रवासने
रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः ॥

2.46.36

अहं किं चापि वक्ष्यामि देवीं तव सुतो मया
नीतो ऽसौ मातुलकुलं संतापं मा कृथा इति ॥

2.46.37

असत्यम् अपि नैवाहं ब्रूयां वचनम् ईदृशम्
कथम् अप्रियम् एवाहं ब्रूयां सत्यम् इदं वचः ॥

2.46.38

मम तावन् नियोगस्थास् त्वद्बन्धुजनवाहिनः
कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः ॥

2.46.39

यदि मे याचमानस्य त्यागम् एव करिष्यसि
सरथो ऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया ॥

2.46.40

भविष्यन्ति वने यानि तपोविघ्नकराणि ते
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥

2.46.41

त्वत्कृते न मया प्राप्तं रथचर्याकृतं सुखम्
आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥

2.46.42

प्रसीदेच्छामि ते ऽरण्ये भवितुं प्रत्यनन्तरः
प्रीत्याभिहितम् इच्छामि भव मे पत्यनन्तरः ॥

2.46.43

तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्
अयोध्यां देवलोकं वा सर्वथा प्रजहाम्य् अहम् ॥

2.46.44

न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना
राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥

2.46.45

इमे चापि हया वीर यदि ते वनवासिनः
परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥

2.46.46

वनवासे क्षयं प्राप्ते ममैष हि मनोरथः
यद् अनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥

2.46.47

चतुर्दश हि वर्षाणि सहितस्य त्वया वने
क्षणभूतानि यास्यन्ति शतशस् तु ततो ऽन्यथा ॥

2.46.48

भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि
भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुम् अर्हसि ॥

2.46.49

एवं बहुविधं दीनं याचमानं पुनः पुनः
रामो भृत्यानुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥

2.46.50

जानामि परमां भक्तिं मयि ते भर्तृवत्सल
शृणु चापि यदर्थं त्वां प्रेषयामि पुरीम् इतः ॥

2.46.51

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी
कैकेयी प्रत्ययं गच्छेद् इति रामो वनं गतः ॥

2.46.52

परितुष्टा हि सा देवी वनवासं गते मयि
राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥

2.46.53

एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी
भरतारक्षितं स्फीतं पुत्रराज्यम् अवाप्नुयात् ॥

2.46.54

मम प्रियार्थं राज्ञश् च सरथस् त्वं पुरीं व्रज
संदिष्टश् चासि यानर्थांस् तांस् तान् ब्रूयास् तथातथा ॥

2.46.55

इत्य् उक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः
गुहं वचनम् अक्लीबं रामो हेतुमद् अब्रवीत्
जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरम् आनय ॥

2.46.56

तत् क्षीरं राजपुत्राय गुहः क्षिप्रम् उपाहरत्
लक्ष्मणस्यात्मनश् चैव रामस् तेनाकरोज् जटाः ॥

2.46.57

तौ तदा चीरवसनौ जटामण्डलधारिणौ
अशोभेताम् ऋषिसमौ भ्रातरौ रामलक्ष्मणौ ॥

2.46.58

ततो वैखानसं मार्गम् आस्थितः सहलक्ष्मणः
व्रतम् आदिष्टवान् रामः सहायं गुहम् अब्रवीत् ॥

2.46.59

अप्रमत्तो बले कोशे दुर्गे जनपदे तथा
भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ॥

2.46.60

ततस् तं समनुज्ञाय गुहम् इक्ष्वाकुनन्दनः
जगाम तूर्णम् अव्यग्रः सभार्यः सहलक्ष्मणः ॥

2.46.61

स तु दृष्ट्वा नदीतीरे नावम् इक्ष्वाकुनन्दनः
तितीर्षुः शीघ्रगां गङ्गाम् इदं लक्ष्मणम् अब्रवीत् ॥

2.46.62

आरोह त्वं नरव्याघ्र स्थितां नावम् इमां शनैः
सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥

2.46.63

स भ्रातुः शासनं श्रुत्वा सर्वम् अप्रतिकूलयन्
आरोप्य मैथिलीं पूर्वम् आरुरोहात्मवांस् ततः ॥

2.46.64

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः
ततो निषादाधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥

2.46.65

अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम्
आस्थाय नावं रामस् तु चोदयामास नाविकान् ॥

2.46.66

ततस् तैश् चोदिता सा नौः कर्णधारसमाहिता
शुभस्फ्यवेगाभिहता शीघ्रं सलिलम् अत्यगात् ॥

2.46.67

मध्यं तु समनुप्राप्य भागीरथ्यास् त्व् अनिन्दिता
वैदेही प्राञ्जलिर् भूत्वा तां नदीम् इदम् अब्रवीत् ॥

2.46.68

पुत्रो दशरथस्यायं महाराजस्य धीमतः
निदेशं पालयत्व् एनं गङ्गे त्वदभिरक्षितः ॥

2.46.69

चतुर्दश हि वर्षाणि समग्राण्य् उष्य कानने
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥

2.46.70

ततस् त्वां देवि सुभगे क्षेमेण पुनर् आगता
यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये ॥

2.46.71

त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे
भार्या चोदधिराजस्य लोके ऽस्मिन् सम्प्रदृश्यसे ॥

2.46.72

सा त्वां देवि नमस्यामि प्रशंसामि च शोभने
प्राप्तराज्ये नरव्याघ्रे शिवेन पुनर् आगते ॥

2.46.73

गवां शतसहस्राणि वस्त्राण्य् अन्नं च पेशलम्
ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥

2.46.74

तथा संभाषमाणा सा सीता गङ्गाम् अनिन्दिता
दक्षिणा दक्षिणं तीरं क्षिप्रम् एवाभ्युपागमत् ॥

2.46.75

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः ॥

2.46.76

अथाब्रवीन् महाबाहुः सुमित्रानन्दवर्धनम्
अग्रतो गच्छ सौमित्रे सीता त्वाम् अनुगच्छतु ॥

2.46.77

पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन्
अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥

2.46.78

गतं तु गङ्गापरपारम् आशु रामं सुमन्त्रः प्रततं निरीक्ष्य
अध्वप्रकर्षाद् विनिवृत्तदृष्टिर् मुमोच बाष्पं व्यथितस् तपस्वी ॥

2.46.79

तौ तत्र हत्वा चतुरो महामृगान् वराहम् ऋश्यं पृषतं महारुरुम्
आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर् वनस्पतिम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc