रामायण (संशोधित पाठ) · अध्याय 2.48
ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम्
विमले ऽभ्युदिते सूर्ये तस्माद् देशात् प्रतस्थिरे ॥
यत्र भागीरथी गङ्गा यमुनाम् अभिवर्तते
जग्मुस् तं देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥
ते भूमिम् आगान् विविधान् देशांश् चापि मनोरमान्
अदृष्टपूर्वान् पश्यन्तस् तत्र तत्र यशस्विनः ॥
यथाक्षेमेण गच्छन् स पश्यंश् च विविधान् द्रुमान्
निवृत्तमात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥
प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम्
अग्नेर् भगवतः केतुं मन्ये संनिहितो मुनिः ॥
नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर् वयम्
तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः ॥
दारूणि परिभिन्नानि वनजैर् उपजीविभिः
भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥
धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे
गङ्गायमुनयोः संधौ प्रापतुर् निलयं मुनेः ॥
रामस् त्व् आश्रमम् आसाद्य त्रासयन् मृगपक्षिणः
गत्वा मुहूर्तम् अध्वानं भरद्वाजम् उपागमत् ॥
ततस् त्व् आश्रमम् आसाद्य मुनेर् दर्शनकाङ्क्षिणौ
सीतयानुगतौ वीरौ दूराद् एवावतस्थतुः ॥
हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः
रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ॥
न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः
पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ ॥
भार्या ममेयं वैदेही कल्याणी जनकात्मजा
मां चानुयाता विजनं तपोवनम् अनिन्दिता ॥
पित्रा प्रव्राज्यमानं मां सौमित्रिर् अनुजः प्रियः
अयम् अन्वगमद् भ्राता वनम् एव दृढव्रतः ॥
पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस् तपोवनम्
धर्मम् एवाचरिष्यामस् तत्र मूलफलाशनाः ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः
उपानयत धर्मात्मा गाम् अर्घ्यम् उदकं ततः ॥
मृगपक्षिभिर् आसीनो मुनिभिश् च समन्ततः
रामम् आगतम् अभ्यर्च्य स्वागतेनाह तं मुनिः ॥
प्रतिगृह्य च ताम् अर्चाम् उपविष्टं सराघवम्
भरद्वाजो ऽब्रवीद् वाक्यं धर्मयुक्तम् इदं तदा ॥
चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इहागतम्
श्रुतं तव मया चेदं विवासनम् अकारणम् ॥
अवकाशो विविक्तो ऽयं महानद्योः समागमे
पुण्यश् च रमणीयश् च वसत्व् इह भवान् सुखम् ॥
एवम् उक्तस् तु वचनं भरद्वाजेन राघवः
प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥
भगवन्न् इत आसन्नः पौरजानपदो जनः
आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः
अनेन कारणेनाहम् इह वासं न रोचये ॥
एकान्ते पश्य भगवन्न् आश्रमस्थानम् उत्तमम्
रमते यत्र वैदेही सुखार्हा जनकात्मजा ॥
एतच् छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः
राघवस्य ततो वाक्यम् अर्थग्राहकम् अब्रवीत् ॥
दशक्रोश इतस् तात गिरिर् यस्मिन् निवत्स्यसि
महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः ॥
गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः
चित्रकूट इति ख्यातो गन्धमादनसंनिभः ॥
यावता चित्रकूटस्य नरः शृङ्गाण्य् अवेक्षते
कल्याणानि समाधत्ते न पापे कुरुते मनः ॥
ऋषयस् तत्र बहवो विहृत्य शरदां शतम्
तपसा दिवम् आरूढाः कपालशिरसा सह ॥
प्रविविक्तम् अहं मन्ये तं वासं भवतः सुखम्
इह वा वनवासाय वस राम मया सह ॥
स रामं सर्वकामैस् तं भरद्वाजः प्रियातिथिम्
सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥
तस्य प्रयागे रामस्य तं महर्षिम् उपेयुषः
प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥
प्रभातायां रजन्यां तु भरद्वाजम् उपागमत्
उवाच नरशार्दूलो मुनिं ज्वलिततेजसम् ॥
शर्वरीं भगवन्न् अद्य सत्यशील तवाश्रमे
उषिताः स्मेह वसतिम् अनुजानातु नो भवान् ॥
रात्र्यां तु तस्यां व्युष्टायां भरद्वाजो ऽब्रवीद् इदम्
मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ॥
तत्र कुञ्जरयूथानि मृगयूथानि चाभितः
विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव ॥
प्रहृष्टकोयष्टिककोकिलस्वनैर् विनादितं तं वसुधाधरं शिवम्
मृगैश् च मत्तैर् बहुभिश् च कुञ्जरैः सुरम्यम् आसाद्य समावसाश्रमम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0