रामायण (संशोधित पाठ) · अध्याय 2.45
तं जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम्
गुहः संतापसंतप्तो राघवं वाक्यम् अब्रवीत् ॥
इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता
प्रत्याश्वसिहि साध्व् अस्यां राजपुत्र यथासुखम् ॥
उचितो ऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः
गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ॥
न हि रामात् प्रियतरो ममास्ति भुवि कश्चन
ब्रवीम्य् एतद् अहं सत्यं सत्येनैव च ते शपे ॥
अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः
धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम् ॥
सो ऽहं प्रियसखं रामं शयानं सह सीतया
रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह ॥
न हि मे ऽविदितं किंचिद् वने ऽस्मिंश् चरतः सदा
चतुरङ्गं ह्य् अपि बलं सुमहत् प्रसहेमहि ॥
लक्ष्मणस् तं तदोवाच रक्ष्यमाणास् त्वयानघ
नात्र भीता वयं सर्वे धर्मम् एवानुपश्यता ॥
कथं दाशरथौ भूमौ शयाने सह सीतया
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि
तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥
यो मन्त्रतपसा लब्धो विविधैश् च परिश्रमैः
एको दशरथस्यैष पुत्रः सदृशलक्षणः ॥
अस्मिन् प्रव्रजितो राजा न चिरं वर्तयिष्यति
विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति ॥
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः
निर्घोषोपरतं तात मन्ये राजनिवेशनम् ॥
कौसल्या चैव राजा च तथैव जननी मम
नाशंसे यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥
जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया
तद् दुःखं यत् तु कौसल्या वीरसूर् विनशिष्यति ॥
अनुरक्तजनाकीर्णा सुखालोकप्रियावहा
राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ॥
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम्
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥
सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्
हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम् ॥
रथाश्वगजसम्बाधां तूर्यनादविनादिताम्
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥
आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम्
सुखिता विचरिष्यन्ति राजधानीं पितुर् मम ॥
अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्
निवृत्ते वनवासे ऽस्मिन्न् अयोध्यां प्रविशेमहि ॥
परिदेवयमानस्य दुःखार्तस्य महात्मनः
तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥
तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः
मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0