रामायण (संशोधित पाठ) · अध्याय 2.44
विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः
आससाद महाबाहुः शृङ्गवेरपुरं प्रति ॥
तत्र त्रिपथगां दिव्यां शिवतोयाम् अशैवलाम्
ददर्श राघवो गङ्गां पुण्याम् ऋषिनिषेविताम् ॥
हंससारससंघुष्टां चक्रवाकोपकूजिताम्
शिशुमारैश् च नक्रैश् च भुजंगैश् च निषेविताम् ॥
ताम् ऊर्मिकलिलावर्ताम् अन्ववेक्ष्य महारथः
सुमन्त्रम् अब्रवीत् सूतम् इहैवाद्य वसामहे ॥
अविदूराद् अयं नद्या बहुपुष्पप्रवालवान्
सुमहान् इङ्गुदीवृक्षो वसामो ऽत्रैव सारथे ॥
लक्षणश् च सुमन्त्रश् च बाढम् इत्य् एव राघवम्
उक्त्वा तम् इङ्गुदीवृक्षं तदोपययतुर् हयैः ॥
रामो ऽभियाय तं रम्यं वृक्षम् इक्ष्वाकुनन्दनः
रथाद् अवातरत् तस्मात् सभार्यः सहलक्ष्मणः ॥
सुमन्त्रो ऽप्य् अवतीर्यैव मोचयित्वा हयोत्तमान्
वृक्षमूलगतं रामम् उपतस्थे कृताञ्जलिः ॥
तत्र राजा गुहो नाम रामस्यात्मसमः सखा
निषादजात्यो बलवान् स्थपतिश् चेति विश्रुतः ॥
स श्रुत्वा पुरुषव्याघ्रं रामं विषयम् आगतम्
वृद्धैः परिवृतो ऽमात्यैर् ज्ञातिभिश् चाप्य् उपागतः ॥
ततो निषादाधिपतिं दृष्ट्वा दूराद् अवस्थितम्
सह सौमित्रिणा रामः समागच्छद् गुहेन सः ॥
तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत्
यथायोध्या तथेदं ते राम किं करवाणि ते ॥
ततो गुणवदन्नाद्यम् उपादाय पृथग्विधम्
अर्घ्यं चोपानयत् क्षिप्रं वाक्यं चेदम् उवाच ह ॥
स्वागतं ते महाबाहो तवेयम् अखिला मही
वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः ॥
भक्ष्यं भोज्यं च पेयं च लेह्यं चेदम् उपस्थितम्
शयनानि च मुख्यानि वाजिनां खादनं च ते ॥
गुहम् एव ब्रुवाणं तं राघवः प्रत्युवाच ह
अर्चिताश् चैव हृष्टाश् च भवता सर्वथा वयम् ॥
पद्भ्याम् अभिगमाच् चैव स्नेहसंदर्शनेन च
भुजाभ्यां साधुवृत्ताभ्यां पीडयन् वाक्यम् अब्रवीत् ॥
दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः
अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च ॥
यत् त्व् इदं भवता किंचित् प्रीत्या समुपकल्पितम्
सर्वं तद् अनुजानामि न हि वर्ते प्रतिग्रहे ॥
कुशचीराजिनधरं फलमूलाशनं च माम्
विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥
अश्वानां खादनेनाहम् अर्थी नान्येन केनचित्
एतावतात्रभवता भविष्यामि सुपूजितः ॥
एते हि दयिता राज्ञः पितुर् दशरथस्य मे
एतैः सुविहितैर् अश्वैर् भविष्याम्य् अहम् अर्चितः ॥
अश्वानां प्रतिपानं च खादनं चैव सो ऽन्वशात्
गुहस् तत्रैव पुरुषांस् त्वरितं दीयताम् इति ॥
ततश् चीरोत्तरासङ्गः संध्याम् अन्वास्य पश्चिमाम्
जलम् एवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः
सभार्यस्य ततो ऽभ्येत्य तस्थौ वृक्षम् उपाश्रितः ॥
गुहो ऽपि सह सूतेन सौमित्रिम् अनुभाषयन्
अन्वजाग्रत् ततो रामम् अप्रमत्तो धनुर्धरः ॥
तथा शयानस्य ततो ऽस्य धीमतो यशस्विनो दाशरथेर् महात्मनः
अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0