भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.43

2.43.1

रामो ऽपि रात्रिशेषेण तेनैव महद् अन्तरम्
जगाम पुरुषव्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥

2.43.2

तथैव गच्छतस् तस्य व्यपायाद् रजनी शिवा
उपास्य स शिवां संध्यां विषयान्तं व्यगाहत ॥

2.43.3

ग्रामान् विकृष्टसीमांस् तान् पुष्पितानि वनानि च
पश्यन्न् अतिययौ शीघ्रं शरैर् इव हयोत्तमैः ॥

2.43.4

शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम्
राजानं धिग् दशरथं कामस्य वशम् आगतम् ॥

2.43.5

हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी
तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते ॥

2.43.6

या पुत्रम् ईदृशं राज्ञः प्रवासयति धार्मिकम्
वनवासे महाप्राज्ञं सानुक्रोशम् अतन्द्रितम् ॥

2.43.7

एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्
शृण्वन्न् अतिययौ वीरः कोसलान् कोसलेश्वरः ॥

2.43.8

ततो वेदश्रुतिं नाम शिववारिवहां नदीम्
उत्तीर्याभिमुखः प्रायाद् अगस्त्याध्युषितां दिशम् ॥

2.43.9

गत्वा तु सुचिरं कालं ततः शीतजलां नदीम्
गोमतीं गोयुतानूपाम् अतरत् सागरंगमाम् ॥

2.43.10

गोमतीं चाप्य् अतिक्रम्य राघवः शीघ्रगैर् हयैः
मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥

2.43.11

स महीं मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा
स्फीतां राष्ट्रावृतां रामो वैदेहीम् अन्वदर्शयत् ॥

2.43.12

सूत इत्य् एव चाभाष्य सारथिं तम् अभीक्ष्णशः
हंसमत्तस्वरः श्रीमान् उवाच पुरुषर्षभः ॥

2.43.13

कदाहं पुनर् आगम्य सरय्वाः पुष्पिते वने
मृगयां पर्यटिष्यामि मात्रा पित्रा च संगतः ॥

2.43.14

नात्यर्थम् अभिकाङ्क्षामि मृगयां सरयूवने
रतिर् ह्य् एषातुला लोके राजर्षिगणसंमता ॥

2.43.15

स तम् अध्वानम् ऐक्ष्वाकः सूतं मधुरया गिरा
तं तम् अर्थम् अभिप्रेत्य ययौ वाक्यम् उदीरयन् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc