भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.42

2.42.1

अनुगम्य निवृत्तानां रामं नगरवासिनाम्
उद्गतानीव सत्त्वानि बभूवुर् अमनस्विनाम् ॥

2.42.2

स्वं स्वं निलयम् आगम्य पुत्रदारैः समावृताः
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥

2.42.3

न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन्
न चाशोभन्त पण्यानि नापचन् गृहमेधिनः ॥

2.42.4

नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम्
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥

2.42.5

गृहे गृहे रुदन्त्यश् च भर्तारं गृहम् आगतम्
व्यगर्हयन्त दुःखार्ता वाग्भिस् तोत्रैर् इव द्विपान् ॥

2.42.6

किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा
पुत्रैर् वा किं सुखैर् वापि ये न पश्यन्ति राघवम् ॥

2.42.7

एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया
यो ऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥

2.42.8

आपगाः कृतपुण्यास् ताः पद्मिन्यश् च सरांसि च
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥

2.42.9

शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्यकाननाः
आपगाश् च महानूपाः सानुमन्तश् च पर्वताः ॥

2.42.10

काननं वापि शैलं वा यं रामो ऽभिगमिष्यति
प्रियातिथिम् इव प्राप्तं नैनं शक्ष्यन्त्य् अनर्चितुम् ॥

2.42.11

विचित्रकुसुमापीडा बहुमञ्जरिधारिणः
अकाले चापि मुख्यानि पुष्पाणि च फलानि च
दर्शयिष्यन्त्य् अनुक्रोशाद् गिरयो रामम् आगतम् ॥

2.42.12

विदर्शयन्तो विविधान् भूयश् चित्रांश् च निर्झरान्
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ॥

2.42.13

यत्र रामो भयं नात्र नास्ति तत्र पराभवः
स हि शूरो महाबाहुः पुत्रो दशरथस्य च ॥

2.42.14

पुरा भवति नो दूराद् अनुगच्छाम राघवम्
पादच्छाया सुखा भर्तुस् तादृशस्य महात्मनः
स हि नाथो जनस्यास्य स गतिः स परायणम् ॥

2.42.15

वयं परिचरिष्यामः सीतां यूयं तु राघवम्
इति पौरस्त्रियो भर्तॄन् दुःखार्तास् तत् तद् अब्रुवन् ॥

2.42.16

युष्माकं राघवो ऽरण्ये योगक्षेमं विधास्यति
सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥

2.42.17

को न्व् अनेनाप्रतीतेन सोत्कण्ठितजनेन च
संप्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥

2.42.18

कैकेय्या यदि चेद् राज्यं स्याद् अधर्म्यम् अनाथवत्
न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥

2.42.19

यया पुत्रश् च भर्ता च त्यक्ताव् ऐश्वर्यकारणात्
कं सा परिहरेद् अन्यं कैकेयी कुलपांसनी ॥

2.42.20

कैकेय्या न वयं राज्ये भृतका निवसेम हि
जीवन्त्या जातु जीवन्त्यः पुत्रैर् अपि शपामहे ॥

2.42.21

या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा
कस् तां प्राप्य सुखं जीवेद् अधर्म्यां दुष्टचारिणीम् ॥

2.42.22

न हि प्रव्रजिते रामे जीविष्यति महीपतिः
मृते दशरथे व्यक्तं विलोपस् तदनन्तरम् ॥

2.42.23

ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः
राघवं वानुगच्छध्वम् अश्रुतिं वापि गच्छत ॥

2.42.24

मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः
भरते संनिसृष्टाः स्मः सौनिके पशवो यथा ॥

2.42.25

तास् तथा विलपन्त्यस् तु नगरे नागरस्त्रियः
चुक्रुशुर् भृशसंतप्ता मृत्योर् इव भयागमे ॥

2.42.26

तथा स्त्रियो रामनिमित्तम् आतुरा यथा सुते भ्रातरि वा विवासिते
विलप्य दीना रुरुदुर् विचेतसः सुतैर् हि तासाम् अधिको हि सो ऽभवत् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc