रामायण (संशोधित पाठ) · अध्याय 2.40
अनुरक्ता महात्मानं रामं सत्यपराक्रमम्
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ॥
निवर्तिते ऽपि च बलात् सुहृद्वर्गे च राजनि
नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥
अयोध्यानिलयानां हि पुरुषाणां महायशाः
बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ॥
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा
कुर्वाणः पितरं सत्यं वनम् एवान्वपद्यत ॥
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्न् इव
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥
या प्रीतिर् बहुमानश् च मय्य् अयोध्यानिवासिनाम्
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ॥
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः
करिष्यति यथावद् वः प्रियाणि च हितानि च ॥
ज्ञानवृद्धो वयोबालो मृदुर् वीर्यगुणान्वितः
अनुरूपः स वो भर्ता भविष्यति भयापहः ॥
स हि राजगुणैर् युक्तो युवराजः समीक्षितः
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥
न च तप्येद् यथा चासौ वनवासं गते मयि
महाराजस् तथा कार्यो मम प्रियचिकीर्षया ॥
यथा यथा दाशरथिर् धर्मम् एवास्थितो ऽभवत्
तथा तथा प्रकृतयो रामं पतिम् अकामयन् ॥
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह
चकर्षेव गुणैर् बद्ध्वा जनं पुनर् इवासनम् ॥
ते द्विजास् त्रिविधं वृद्धा ज्ञानेन वयसौजसा
वयःप्रकम्पशिरसो दूराद् ऊचुर् इदं वचः ॥
वहन्तो जवना रामं भो भो जात्यास् तुरंगमाः
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि
उपवाह्यस् तु वो भर्ता नापवाह्यः पुराद् वनम् ॥
एवम् आर्तप्रलापांस् तान् वृद्धान् प्रलपतो द्विजान्
अवेक्ष्य सहसा रामो रथाद् अवततार ह ॥
पद्भ्याम् एव जगामाथ ससीतः सहलक्ष्मणः
संनिकृष्टपदन्यासो रामो वनपरायणः ॥
द्विजातींस् तु पदातींस् तान् रामश् चारित्रवत्सलः
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥
गच्छन्तम् एव तं दृष्ट्वा रामं संभ्रान्तमानसाः
ऊचुः परमसंतप्ता रामं वाक्यम् इदं द्विजाः ॥
ब्राह्मण्यं कृत्स्नम् एतत् त्वां ब्रह्मण्यम् अनुगच्छति
द्विजस्कन्धाधिरूढास् त्वाम् अग्नयो ऽप्य् अनुयान्त्य् अमी ॥
वाजपेयसमुत्थानि छत्त्राण्य् एतानि पश्य नः
पृष्ठतो ऽनुप्रयातानि हंसान् इव जलात्यये ॥
अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते
एभिश् छायां करिष्यामः स्वैश् छत्त्रैर् वाजपेयिकैः ॥
या हि नः सततं बुद्धिर् वेदमन्त्रानुसारिणी
त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥
हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परं धनम्
वत्स्यन्त्य् अपि गृहेष्व् एव दाराश् चारित्ररक्षिताः ॥
न पुनर् निश्चयः कार्यस् त्वद्गतौ सुकृता मतिः
त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मम् अवेक्षितुम् ॥
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः
शिरोभिर् निभृताचार महीपतनपांसुलैः ॥
बहूनां वितता यज्ञा द्विजानां य इहागताः
तेषां समाप्तिर् आयत्ता तव वत्स निवर्तने ॥
भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च
याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय ॥
अनुगन्तुम् अशक्तास् त्वां मूलैर् उद्धृतवेगिनः
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥
निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः
पक्षिणो ऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ॥
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने
ददृशे तमसा तत्र वारयन्तीव राघवम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0