भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.39

2.39.1

विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्
इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यम् अब्रवीत् ॥

2.39.2

तवार्ये सद्गुणैर् युक्तः पुत्रः स पुरुषोत्तमः
किं ते विलपितेनैवं कृपणं रुदितेन वा ॥

2.39.3

यस् तवार्ये गतः पुत्रस् त्यक्त्वा राज्यं महाबलः
साधु कुर्वन् महात्मानं पितरं सत्यवादिनाम् ॥

2.39.4

शिष्टैर् आचरिते सम्यक् शश्वत् प्रेत्य फलोदये
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥

2.39.5

वर्तते चोत्तमां वृत्तिं लक्ष्मणो ऽस्मिन् सदानघः
दयावान् सर्वभूतेषु लाभस् तस्य महात्मनः ॥

2.39.6

अरण्यवासे यद् दुःखं जानती वै सुखोचिता
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥

2.39.7

कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः
दमसत्यव्रतपरः किं न प्राप्तस् तवात्मजः ॥

2.39.8

व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यम् उत्तमम्
न गात्रम् अंशुभिः सूर्यः संतापयितुम् अर्हति ॥

2.39.9

शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः
राघवं युक्तशीतोष्णः सेविष्यति सुखो ऽनिलः ॥

2.39.10

शयानम् अनघं रात्रौ पितेवाभिपरिष्वजन्
रश्मिभिः संस्पृशञ् शीतैश् चन्द्रमा ह्लादयिष्यति ॥

2.39.11

ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे
दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥

2.39.12

पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः
क्षिप्रं तिसृभिर् एताभिः सह रामो ऽभिषेक्ष्यते ॥

2.39.13

दुःखजं विसृजन्त्य् अस्रं निष्क्रामन्तम् उदीक्ष्य यम्
समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रम् आनन्दजं पयः ॥

2.39.14

अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्
मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥

2.39.15

पुत्रस् ते वरदः क्षिप्रम् अयोध्यां पुनर् आगतः
कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥

2.39.16

निशम्य तल् लक्ष्मणमातृवाक्यं रामस्य मातुर् नरदेवपत्न्याः
सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc