भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.38

2.38.1

ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्
कौसल्या पुत्रशोकार्ता तम् उवाच महीपतिम् ॥

2.38.2

राघवो नरशार्दूल विषम् उप्त्वा द्विजिह्ववत्
विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥

2.38.3

विवास्य रामं सुभगा लब्धकामा समाहिता
त्रासयिष्यति मां भूयो दुष्टाहिर् इव वेश्मनि ॥

2.38.4

अथ स्म नगरे रामश् चरन् भैक्षं गृहे वसेत्
कामकारो वरं दातुम् अपि दासं ममात्मजम् ॥

2.38.5

पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः
प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥

2.38.6

गजराजगतिर् वीरो महाबाहुर् धनुर्धरः
वनम् आविशते नूनं सभार्यः सहलक्ष्मणः ॥

2.38.7

वने त्व् अदृष्टदुःखानां कैकेय्यानुमते त्वया
त्यक्तानां वनवासाय का न्व् अवस्था भविष्यति ॥

2.38.8

ते रत्नहीनास् तरुणाः फलकाले विवासिताः
कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥

2.38.9

अपीदानीं स कालः स्यान् मम शोकक्षयः शिवः
सभार्यं यत् सह भ्रात्रा पश्येयम् इह राघवम् ॥

2.38.10

श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति
यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥

2.38.11

कदा प्रेक्ष्य नरव्याघ्राव् अरण्यात् पुनरागतौ
नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥

2.38.12

कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति
पुरस्कृत्य रथे सीतां वृषभो गोवधूम् इव ॥

2.38.13

कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ
लाजैर् अवकरिष्यन्ति प्रविशन्ताव् अरिंदमौ ॥

2.38.14

कदा सुमनसः कन्या द्विजातीनां फलानि च
प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥

2.38.15

कदा परिणतो बुद्ध्या वयसा चामरप्रभः
अभ्युपैष्यति धर्मज्ञस् त्रिवर्ष इव मां ललन् ॥

2.38.16

निःसंशयं मया मन्ये पुरा वीर कदर्यया
पातु कामेषु वत्सेषु मातॄणां शातिताः स्तनाः ॥

2.38.17

साहं गौर् इव सिंहेन विवत्सा वत्सला कृता
कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर् बलात् ॥

2.38.18

न हि तावद् गुणैर् जुष्टं सर्वशास्त्रविशारदम्
एकपुत्रा विना पुत्रम् अहं जीवितुम् उत्सहे ॥

2.38.19

न हि मे जीविते किंचित् सामर्थ्यम् इह कल्प्यते
अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ॥

2.38.20

अयं हि मां दीपयते समुत्थितस् तनूजशोकप्रभवो हुताशनः
महीम् इमां रश्मिभिर् उत्तमप्रभो यथा निदाघे भगवान् दिवाकरः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc