रामायण (संशोधित पाठ) · अध्याय 2.37
यावत् तु निर्यतस् तस्य रजोरूपम् अदृश्यत
नैवेक्ष्वाकुवरस् तावत् संजहारात्मचक्षुषी ॥
यावद् राजा प्रियं पुत्रं पश्यत्य् अत्यन्तधार्मिकम्
तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने ॥
न पश्यति रजो ऽप्य् अस्य यदा रामस्य भूमिपः
तदार्तश् च विषण्णश् च पपात धरणीतले ॥
तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अङ्गना
वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया ॥
तां नयेन च सम्पन्नो धर्मेण विनयेन च
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥
कैकेयि मा ममाङ्गानि स्प्राक्षीस् त्वं दुष्टचारिणी
न हि त्वां द्रष्टुम् इच्छामि न भार्या न च बान्धवी ॥
ये च त्वाम् उपजीवन्ति नाहं तेषां न ते मम
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्य् अहम् ॥
अगृह्णां यच् च ते पाणिम् अग्निं पर्यणयं च यत्
अनुजानामि तत् सर्वम् अस्मिंल् लोके परत्र च ॥
भरतश् चेत् प्रतीतः स्याद् राज्यं प्राप्येदम् अव्ययम्
यन् मे स दद्यात् पित्रर्थं मा मा तद् दत्तम् आगमत् ॥
अथ रेणुसमुद्ध्वस्तं तम् उत्थाप्य नराधिपम्
न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निम् इव पाणिना
अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम् ॥
निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥
विललाप च दुःखार्तः प्रियं पुत्रम् अनुस्मरन्
नगरान्तम् अनुप्राप्तं बुद्ध्वा पुत्रम् अथाब्रवीत् ॥
वाहनानां च मुख्यानां वहतां तं ममात्मजम्
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥
स नूनं क्वचिद् एवाद्य वृक्षमूलम् उपाश्रितः
काष्ठं वा यदि वाश्मानम् उपधाय शयिष्यते ॥
उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः
विनिःश्वसन् प्रस्रवणात् करेणूनाम् इवर्षभः ॥
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः
रामम् उत्थाय गच्छन्तं लोकनाथम् अनाथवत् ॥
सकामा भव कैकेयि विधवा राज्यम् आवस
न हि तं पुरुषव्याघ्रं विना जीवितुम् उत्सहे ॥
इत्य् एवं विलपन् राजा जनौघेनाभिसंवृतः
अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् ॥
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम्
क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥
ताम् अवेक्ष्य पुरीं सर्वां रामम् एवानुचिन्तयन्
विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम् ॥
महाह्रदम् इवाक्षोभ्यं सुपर्णेन हृतोरगम्
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥
कौसल्याया गृहं शीघ्रं राममातुर् नयन्तु माम्
इति ब्रुवन्तं राजानम् अनयन् द्वारदर्शिनः ॥
ततस् तत्र प्रविष्टस्य कौसल्याया निवेशनम्
अधिरुह्यापि शयनं बभूव लुलितं मनः ॥
तच् च दृष्ट्वा महाराजो भुजम् उद्यम्य वीर्यवान्
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनर् आगतम् ॥
न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश
रामं मे ऽनुगता दृष्टिर् अद्यापि न निवर्तते ॥
तं रामम् एवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम्
उपोपविश्याधिकम् आर्तरूपा विनिःश्वसन्ती विललाप कृच्छ्रम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0