रामायण (संशोधित पाठ) · अध्याय 2.34
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्
समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्
न चैनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥
स मुहूर्तम् इवासंज्ञो दुःखितश् च महीपतिः
विललाप महाबाहू रामम् एवानुचिन्तयन् ॥
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः
प्राणिनो हिंसिता वापि तस्माद् इदम् उपस्थितम् ॥
न त्व् एवानागते काले देहाच् च्यवति जीवितम्
कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते ॥
यो ऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्
विहाय वसने सूक्ष्मे तापसाच्छादम् आत्मजम् ॥
एकस्याः खलु कैकेय्याः कृते ऽयं क्लिश्यते जनः
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्व् इमाम् ॥
एवम् उक्त्वा तु वचनं बाष्पेण पिहितेन्द्रियः
रामेति सकृद् एवोक्त्वा व्याहर्तुं न शशाक ह ॥
संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः
नेत्राभ्याम् अश्रुपूर्णाभ्यां सुमन्त्रम् इदम् अब्रवीत् ॥
औपवाह्यं रथं युक्त्वा त्वम् आयाहि हयोत्तमैः
प्रापयैनं महाभागम् इतो जनपदात् परम् ॥
एवं मन्ये गुणवतां गुणानां फलम् उच्यते
पित्रा मात्रा च यत् साधुर् वीरो निर्वास्यते वनम् ॥
राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्रविक्रमः
योजयित्वाययौ तत्र रथम् अश्वैर् अलंकृतम् ॥
तं रथं राजपुत्राय सूतः कनकभूषितम्
आचचक्षे ऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥
राजा सत्वरम् आहूय व्यापृतं वित्तसंचये
उवाच देशकालज्ञो निश्चितं सर्वतः शुचि ॥
वासांसि च महार्हाणि भूषणानि वराणि च
वर्षाण्य् एतानि संख्याय वैदेह्याः क्षिप्रम् आनय ॥
नरेन्द्रेणैवम् उक्तस् तु गत्वा कोशगृहं ततः
प्रायच्छत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् ॥
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्
भूषयामास गात्राणि तैर् विचित्रैर् विभूषणैः ॥
व्यराजयत वैदेही वेश्म तत् सुविभूषिता
उद्यतो ऽंशुमतः काले खं प्रभेव विवस्वतः ॥
तां भुजाभ्यां परिष्वज्य श्वश्रूर् वचनम् अब्रवीत्
अनाचरन्तीं कृपणं मूर्ध्न्य् उपाघ्राय मैथिलीम् ॥
असत्यः सर्वलोके ऽस्मिन् सततं सत्कृताः प्रियैः
भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम
तव दैवतम् अस्त्व् एष निर्धनः सधनो ऽपि वा ॥
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्
कृताञ्जलिर् उवाचेदं श्वश्रूम् अभिमुखे स्थिता ॥
करिष्ये सर्वम् एवाहम् आर्या यद् अनुशास्ति माम्
अभिज्ञास्मि यथा भर्तुर् वर्तितव्यं श्रुतं च मे ॥
न माम् असज्जनेनार्या समानयितुम् अर्हति
धर्माद् विचलितुं नाहम् अलं चन्द्राद् इव प्रभा ॥
नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः
नापतिः सुखम् एधते या स्याद् अपि शतात्मजा ॥
मितं ददाति हि पिता मितं माता मितं सुतः
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥
साहम् एवंगता श्रेष्ठा श्रुतधर्मपरावरा
आर्ये किम् अवमन्येयं स्त्रीणां भर्ता हि दैवतम् ॥
सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम्
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥
तां प्राञ्जलिर् अभिक्रम्य मातृमध्ये ऽतिसत्कृताम्
रामः परमधर्मज्ञो मातरं वाक्यम् अब्रवीत् ॥
अम्ब मा दुःखिता भूस् त्वं पश्य त्वं पितरं मम
क्षयो हि वनवासस्य क्षिप्रम् एव भविष्यति ॥
सुप्तायास् ते गमिष्यन्ति नववर्षाणि पञ्च च
सा समग्रम् इह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥
एतावद् अभिनीतार्थम् उक्त्वा स जननीं वचः
त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः ॥
ताश् चापि स तथैवार्ता मातॄन् दशरथात्मजः
धर्मयुक्तम् इदं वाक्यं निजगाद कृताञ्जलिः ॥
संवासात् परुषं किंचिद् अज्ञानाद् वापि यत् कृतम्
तन् मे समनुजानीत सर्वाश् चामन्त्रयामि वः ॥
जज्ञे ऽथ तासां संनादः क्रौञ्चीनाम् इव निःस्वनः
मानवेन्द्रस्य भार्याणाम् एवं वदति राघवे ॥
मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत् पुरा
विलपितपरिदेवनाकुलं व्यसनगतं तद् अभूत् सुदुःखितम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0