भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.35

2.35.1

अथ रामश् च सीता च लक्ष्मणश् च कृताञ्जलिः
उपसंगृह्य राजानं चक्रुर् दीनाः प्रदक्षिणम् ॥

2.35.2

तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह
राघवः शोकसंमूढो जननीम् अभ्यवादयत् ॥

2.35.3

अन्वक्षं लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत्
अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥

2.35.4

तं वन्दमानं रुदती माता सौमित्रिम् अब्रवीत्
हितकामा महाबाहुं मूर्ध्न्य् उपाघ्राय लक्ष्मणम् ॥

2.35.5

सृष्टस् त्वं वनवासाय स्वनुरक्तः सुहृज्जने
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥

2.35.6

व्यसनी वा समृद्धो वा गतिर् एष तवानघ
एष लोके सतां धर्मो यज् ज्येष्ठवशगो भवेत् ॥

2.35.7

इदं हि वृत्तम् उचितं कुलस्यास्य सनातनम्
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥

2.35.8

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्
अयोध्याम् अटवीं विद्धि गच्छ तात यथासुखम् ॥

2.35.9

ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर् वाक्यम् अब्रवीत्
विनीतो विनयज्ञश् च मातलिर् वासवं यथा ॥

2.35.10

रथम् आरोह भद्रं ते राजपुत्र महायशः
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥

2.35.11

चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया
तान्य् उपक्रमितव्यानि यानि देव्यासि चोदितः ॥

2.35.12

तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा
आरुरोह वरारोहा कृत्वालंकारम् आत्मनः ॥

2.35.13

तथैवायुधजातानि भ्रातृभ्यां कवचानि च
रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत् ॥

2.35.14

सीतातृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत्
सुमन्त्रः संमतान् अश्वान् वायुवेगसमाञ् जवे ॥

2.35.15

प्रयाते तु महारण्यं चिररात्राय राघवे
बभूव नगरे मूर्छा बलमूर्छा जनस्य च ॥

2.35.16

तत् समाकुलसंभ्रान्तं मत्तसंकुपितद्विपम्
हयशिञ्जितनिर्घोषं पुरम् आसीन् महास्वनम् ॥

2.35.17

ततः सबालवृद्धा सा पुरी परमपीडिता
रामम् एवाभिदुद्राव घर्मार्तः सलिलं यथा ॥

2.35.18

पार्श्वतः पृष्ठतश् चापि लम्बमानास् तदुन्मुखाः
बाष्पपूर्णमुखाः सर्वे तम् ऊचुर् भृशदुःखिताः ॥

2.35.19

संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः
मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति ॥

2.35.20

आयसं हृदयं नूनं राममातुर् असंशयम्
यद् देवगर्भप्रतिमे वनं याति न भिद्यते ॥

2.35.21

कृतकृत्या हि वैदेही छायेवानुगता पतिम्
न जहाति रता धर्मे मेरुम् अर्कप्रभा यथा ॥

2.35.22

अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्
भ्रातरं देवसंकाशं यस् त्वं परिचरिष्यसि ॥

2.35.23

महत्य् एषा हि ते सिद्धिर् एष चाभ्युदयो महान्
एष स्वर्गस्य मार्गश् च यद् एनम् अनुगच्छसि
एवं वदन्तस् ते सोढुं न शेकुर् बाष्पम् आगतम् ॥

2.35.24

अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीनचेतनः
निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥

2.35.25

शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः
यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥

2.35.26

पिता च राजा काकुत्स्थः श्रीमान् सन्नस् तदा बभौ
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥

2.35.27

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥

2.35.28

हा रामेति जनाः केचिद् राममातेति चापरे
अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन् ॥

2.35.29

अन्वीक्षमाणो रामस् तु विषण्णं भ्रान्तचेतसम्
राजानं मातरं चैव ददर्शानुगतौ पथि
धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत ॥

2.35.30

पदातिनौ च यानार्हाव् अदुःखार्हौ सुखोचितौ
दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥

2.35.31

न हि तत् पुरुषव्याघ्रो दुःखदं दर्शनं पितुः
मातुश् च सहितुं शक्तस् तोत्रार्दित इव द्विपः ॥

2.35.32

तथा रुदन्तीं कौसल्यां रथं तम् अनुधावतीम्
क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च
असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् ॥

2.35.33

तिष्ठेति राजा चुक्रोश याहि याहीति राघवः
सुमन्त्रस्य बभूवात्मा चक्रयोर् इव चान्तरा ॥

2.35.34

नाश्रौषम् इति राजानम् उपालब्धो ऽपि वक्ष्यसि
चिरं दुःखस्य पापिष्ठम् इति रामस् तम् अब्रवीत् ॥

2.35.35

रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तं जनम्
व्रजतो ऽपि हयाञ् शीघ्रं चोदयामास सारथिः ॥

2.35.36

न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्
मनसाप्य् अश्रुवेगैश् च न न्यवर्तत मानुषम् ॥

2.35.37

यम् इच्छेत् पुनर् आयान्तं नैनं दूरम् अनुव्रजेत्
इत्य् अमात्या महाराजम् ऊचुर् दशरथं वचः ॥

2.35.38

तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः
निशम्य राजा कृपणः सभार्यो व्यवस्थितस् तं सुतम् ईक्षमाणः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc