भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.33

2.33.1

महामात्रवचः श्रुत्वा रामो दशरथं तदा
अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥

2.33.2

त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः
किं कार्यम् अनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥

2.33.3

यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥

2.33.4

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते
सर्वाण्य् एवानुजानामि चीराण्य् एवानयन्तु मे ॥

2.33.5

खनित्रपिटके चोभे ममानयत गच्छतः
चतुर्दश वने वासं वर्षाणि वसतो मम ॥

2.33.6

अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम्
उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥

2.33.7

स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते
सूक्ष्मवस्त्रम् अवक्षिप्य मुनिवस्त्राण्य् अवस्त ह ॥

2.33.8

लक्ष्मणश् चापि तत्रैव विहाय वसने शुभे
तापसाच् छादने चैव जग्राह पितुर् अग्रतः ॥

2.33.9

अथात्मपरिधानार्थं सीता कौशेयवासिनी
समीक्ष्य चीरं संत्रस्ता पृषती वागुराम् इव ॥

2.33.10

सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः
गन्धर्वराजप्रतिमं भर्तारम् इदम् अब्रवीत्
कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ॥

2.33.11

कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना
तस्थौ ह्य् अकुशला तत्र व्रीडिता जनकात्मजा ॥

2.33.12

तस्यास् तत् क्षिप्रम् आगम्य रामो धर्मभृतां वरः
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥

2.33.13

तस्यां चीरं वसानायां नाथवत्याम् अनाथवत्
प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्व् इति ॥

2.33.14

स निःश्वस्योष्णम् ऐक्ष्वाकस् तां भार्याम् इदम् अब्रवीत्
कैकेयि कुशचीरेण न सीता गन्तुम् अर्हति ॥

2.33.15

ननु पर्याप्तम् एतत् ते पापे रामविवासनम्
किम् एभिः कृपणैर् भूयः पातकैर् अपि ते कृतैः ॥

2.33.16

एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्
अवाक्शिरसम् आसीनम् इदं वचनम् अब्रवीत् ॥

2.33.17

इयं धार्मिक कौसल्या मम माता यशस्विनी
वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते ॥

2.33.18

मया विहीनां वरद प्रपन्नां शोकसागरम्
अदृष्टपूर्वव्यसनां भूयः संमन्तुम् अर्हसि ॥

2.33.19

इमां महेन्द्रोपमजातगर्भिणीं तथा विधातुं जननीं ममार्हसि
यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc