रामायण (संशोधित पाठ) · अध्याय 2.32
ततः सुमन्त्रम् ऐक्ष्वाकः पीडितो ऽत्र प्रतिज्ञया
सबाष्पम् अतिनिःश्वस्य जगादेदं पुनः पुनः ॥
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः
राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥
रूपाजीवाश्च शालिन्यो वणिजश् च महाधनाः
शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥
ये चैनम् उपजीवन्ति रमते यैश् च वीर्यतः
तेषां बहुविधं दत्त्वा तान् अप्य् अत्र नियोजय ॥
निघ्नन् मृगान् कुञ्जरांश् च पिबंश् चारण्यकं मधु
नदीश् च विविधाः पश्यन् न राज्यं संस्मरिष्यति ॥
धान्यकोशश् च यः कश्चिद् धनकोशश् च मामकः
तौ रामम् अनुगच्छेतां वसन्तं निर्जने वने ॥
यजन् पुण्येषु देशेषु विसृजंश् चाप्तदक्षिणाः
ऋषिभिश् च समागम्य प्रवत्स्यति सुखं वने ॥
भरतश् च महाबाहुर् अयोध्यां पालयिष्यति
सर्वकामैः पुनः श्रीमान् रामः संसाध्यताम् इति ॥
एवं ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम्
मुखं चाप्य् अगमच्छोषं स्वरश् चापि न्यरुध्यत ॥
सा विषण्णा च संत्रस्ता कैकेयी वाक्यम् अब्रवीत्
राज्यं गतजनं साधो पीतमण्डां सुराम् इव
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥
कैकेय्यां मुक्तलज्जायां वदन्त्याम् अतिदारुणम्
राजा दशरथो वाक्यम् उवाचायतलोचनाम्
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते ॥
कैकेयी द्विगुणं क्रुद्धा राजानम् इदम् अब्रवीत्
तवैव वंशे सगरो ज्येष्ठं पुत्रम् उपारुधत्
असमञ्ज इति ख्यातं तथायं गन्तुम् अर्हति ॥
एवम् उक्तो धिग् इत्य् एव राजा दशरथो ऽब्रवीत्
व्रीडितश् च जनः सर्वः सा च तन् नावबुध्यत ॥
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः
शुचिर् बहुमतो राज्ञः कैकेयीम् इदम् अब्रवीत् ॥
असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान्
सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः ॥
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानम् अब्रुवन्
असमञ्जं वृणीष्वैकम् अस्मान् वा राष्ट्रवर्धन ॥
तान् उवाच ततो राजा किंनिमित्तम् इदं भयम्
ताश् चापि राज्ञा संपृष्टा वाक्यं प्रकृतयो ऽब्रुवन् ॥
क्रीडितस् त्व् एष नः पुत्रान् बालान् उद्भ्रान्तचेतनः
सरय्वां प्रक्षिपन् मौर्ख्याद् अतुलां प्रीतिम् अश्नुते ॥
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप
तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥
इत्य् एवम् अत्यजद् राजा सगरो वै सुधार्मिकः
रामः किम् अकरोत् पापं येनैवम् उपरुध्यते ॥
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः
शोकोपहतया वाचा कैकेयीम् इदम् अब्रवीत् ॥
अनुव्रजिष्याम्य् अहम् अद्य रामं राज्यं परित्यज्य सुखं धनं च
सहैव राज्ञा भरतेन च त्वं यथा सुखं भुङ्क्ष्व चिराय राज्यम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0