भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.31

2.31.1

स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥

2.31.2

आलोक्य तु महाप्राज्ञः परमाकुलचेतसं
रामम् एवानुशोचन्तं सूतः प्राञ्जलिर् आसदत् ॥

2.31.3

अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः
ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥

2.31.4

स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः
सर्वान् सुहृद आपृच्छ्य त्वाम् इदानीं दिदृक्षते ॥

2.31.5

गमिष्यति महारण्यं तं पश्य जगतीपते
वृतं राजगुणैः सर्वैर् आदित्यम् इव रश्मिभिः ॥

2.31.6

स सत्यवादी धर्मात्मा गाम्भीर्यात् सागरोपमः
आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥

2.31.7

सुमन्त्रानय मे दारान् ये केचिद् इह मामकाः
दारैः परिवृतः सर्वैर् द्रष्टुम् इच्छामि राघवम् ॥

2.31.8

सो ऽन्तःपुरम् अतीत्यैव स्त्रियस् ता वाक्यम् अब्रवीत्
आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् ॥

2.31.9

एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया
प्रचक्रमुस् तद् भवनं भर्तुर् आज्ञाय शासनम् ॥

2.31.10

अर्धसप्तशतास् तास् तु प्रमदास् ताम्रलोचनाः
कौसल्यां परिवार्याथ शनैर् जग्मुर् धृतव्रताः ॥

2.31.11

आगतेषु च दारेषु समवेक्ष्य महीपतिः
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥

2.31.12

स सूतो रामम् आदाय लक्ष्मणं मैथिलीं तदा
जगामाभिमुखस् तूर्णं सकाशं जगतीपतेः ॥

2.31.13

स राजा पुत्रम् आयान्तं दृष्ट्वा दूरात् कृताञ्जलिम्
उत्पपातासनात् तूर्णम् आर्तः स्त्रीजनसंवृतः ॥

2.31.14

सो ऽभिदुद्राव वेगेन रामं दृष्ट्वा विशांपतिः
तम् असंप्राप्य दुःखार्तः पपात भुवि मूर्छितः ॥

2.31.15

तं रामो ऽभ्यपतत् क्षिप्रं लक्ष्मणश् च महारथः
विसंज्ञम् इव दुःखेन सशोकं नृपतिं तदा ॥

2.31.16

स्त्रीसहस्रनिनादश् च संजज्ञे राजवेश्मनि
हा हा रामेति सहसा भूषणध्वनिमूर्छितः ॥

2.31.17

तं परिष्वज्य बाहुभ्यां ताव् उभौ रामलक्ष्मणौ
पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ॥

2.31.18

अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम्
उवाच प्राञ्जलिर् भूत्वा शोकार्णवपरिप्लुतम् ॥

2.31.19

आपृच्छे त्वां महाराज सर्वेषाम् ईश्वरो ऽसि नः
प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥

2.31.20

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम्
कारणैर् बहुभिस् तथ्यैर् वार्यमाणौ न चेच्छतः ॥

2.31.21

अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद
लक्ष्मणं मां च सीतां च प्रजापतिर् इव प्रजाः ॥

2.31.22

प्रतीक्षमाणम् अव्यग्रम् अनुज्ञां जगतीपतेः
उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् ॥

2.31.23

अहं राघव कैकेय्या वरदानेन मोहितः
अयोध्यायास् त्वम् एवाद्य भव राजा निगृह्य माम् ॥

2.31.24

एवम् उक्तो नृपतिना रामो धर्मभृतां वरः
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥

2.31.25

भवान् वर्षसहस्राय पृथिव्या नृपते पतिः
अहं त्व् अरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् ॥

2.31.26

श्रेयसे वृद्धये तात पुनरागमनाय च
गच्छस्वारिष्टम् अव्यग्रः पन्थानम् अकुतोभयम् ॥

2.31.27

अद्य त्व् इदानीं रजनीं पुत्र मा गच्छ सर्वथा
मातरं मां च संपश्यन् वसेमाम् अद्य शर्वरीम्
तर्पितः सर्वकामैस् त्वं श्वःकाले साधयिष्यसि ॥

2.31.28

अथ रामस् तथा श्रुत्वा पितुर् आर्तस्य भाषितम्
लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् ॥

2.31.29

प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति
अपक्रमणम् एवातः सर्वकामैर् अहं वृणे ॥

2.31.30

इयं सराष्ट्रा सजना धनधान्यसमाकुला
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥

2.31.31

अपगच्छतु ते दुःखं मा भूर् बाष्पपरिप्लुतः
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥

2.31.32

नैवाहं राज्यम् इच्छामि न सुखं न च मैथिलीम्
त्वाम् अहं सत्यम् इच्छामि नानृतं पुरुषर्षभ ॥

2.31.33

पुरं च राष्ट्रं च मही च केवला मया निसृष्टा भरताय दीयताम्
अहं निदेशं भवतो ऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम् ॥

2.31.34

मया निसृष्टां भरतो महीम् इमां सशैलखण्डां सपुरां सकाननाम्
शिवां सुसीमाम् अनुशास्तु केवलं त्वया यद् उक्तं नृपते यथास्तु तत् ॥

2.31.35

न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये
यथा निदेशे तव शिष्टसंमते व्यपैतु दुःखं तव मत्कृते ऽनघ ॥

2.31.36

तद् अद्य नैवानघ राज्यम् अव्ययं न सर्वकामान् न सुखं न मैथिलीम्
न जीवितं त्वाम् अनृतेन योजयन् वृणीय सत्यं व्रतम् अस्तु ते तथा ॥

2.31.37

फलानि मूलानि च भक्षयन् वने गिरींश् च पश्यन् सरितः सरांसि च
वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc