रामायण (संशोधित पाठ) · अध्याय 2.30
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥
ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे
मालादामभिर् आसक्ते सीतया समलंकृते ॥
ततः प्रासादहर्म्याणि विमानशिखराणि च
अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥
पदातिं वर्जितच्छत्त्रं रामं दृष्ट्वा तदा जनाः
ऊचुर् बहुविधा वाचः शोकोपहतचेतसः ॥
यं यान्तम् अनुयाति स्म चतुरङ्गबलं महत्
तम् एकं सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥
ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः
नेच्छत्य् एवानृतं कर्तुं पितरं धर्मगौरवात् ॥
या न शक्या पुरा द्रष्टुं भूतैर् आकाशगैर् अपि
ताम् अद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्
वर्षम् उष्णं च शीतं च नेष्यत्य् आशु विवर्णताम् ॥
अद्य नूनं दशरथः सत्त्वम् आविश्य भाषते
न हि राजा प्रियं पुत्रं विवासयितुम् अर्हति ॥
निर्गुणस्यापि पुत्रस्य कथं स्याद् विप्रवासनम्
किं पुनर् यस्य लोको ऽयं जितो वृत्तेन केवलम् ॥
आनृशंस्यम् अनुक्रोशः श्रुतं शीलं दमः शमः
राघवं शोभयन्त्य् एते षड्गुणाः पुरुषोत्तमम् ॥
तस्मात् तस्योपघातेन प्रजाः परमपीडिताः
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥
पीडया पीडितं सर्वं जगद् अस्य जगत्पतेः
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः
गच्छन्तम् अनुगच्छामो येन गच्छति राघवः ॥
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च
एकदुःखसुखा रामम् अनुगच्छाम धार्मिकम् ॥
समुद्धृतनिधानानि परिध्वस्ताजिराणि च
उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः
अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥
वनं नगरम् एवास्तु येन गच्छति राघवः
अस्माभिश् च परित्यक्तं पुरं संपद्यतां वनम् ॥
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥
इत्य् एवं विविधा वाचो नानाजनसमीरिताः
शुश्राव रामः श्रुत्वा च न विचक्रे ऽस्य मानसम् ॥
प्रतीक्षमाणो ऽभिजनं तदार्तम् अनार्तरूपः प्रहसन्न् इवाथ
जगाम रामः पितरं दिदृक्षुः पितुर् निदेशं विधिवच् चिकीर्षुः ॥
तत् पूर्वम् ऐक्ष्वाकसुतो महात्मा रामो गमिष्यन् वनम् आर्तरूपम्
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर् महात्मा प्रतिहारणार्थम् ॥
पितुर् निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः
स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् निवेदयस्वागमनं नृपाय मे ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0