रामायण (संशोधित पाठ) · अध्याय 2.29
ततः शासनम् आज्ञाय भ्रातुः शुभतरं प्रियम्
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥
तं विप्रम् अग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत्
सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥
ततः संध्याम् उपास्याशु गत्वा सौमित्रिणा सह
जुष्टं तत् प्राविशल् लक्ष्म्या रम्यं रामनिवेशनम् ॥
तम् आगतं वेदविदं प्राञ्जलिः सीतया सह
सुयज्ञम् अभिचक्राम राघवो ऽग्निम् इवार्चितम् ॥
जातरूपमयैर् मुख्यैर् अङ्गदैः कुण्डलैः शुभैः
सहेमसूत्रैर् मणिभिः केयूरैर् वलयैर् अपि ॥
अन्यैश् च रत्नैर् बहुभिः काकुत्स्थः प्रत्यपूजयत्
सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥
हारं च हेमसूत्रं च भार्यायै सौम्य हारय
रशनां चाधुना सीता दातुम् इच्छति ते सखे ॥
पर्यङ्कम् अग्र्यास्तरणं नानारत्नविभूषितम्
तम् अपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥
नागः शत्रुंजयो नाम मातुलो यं ददौ मम
तं ते गजसहस्रेण ददामि द्विजपुंगव ॥
इत्य् उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत्
रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः ॥
अथ भ्रातरम् अव्यग्रं प्रियं रामः प्रियंवदः
सौमित्रिं तम् उवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥
अगस्त्यं कौशिकं चैव ताव् उभौ ब्राह्मणोत्तमौ
अर्चयाहूय सौमित्रे रत्नैः सस्यम् इवाम्बुभिः ॥
कौसल्यां च य आशीर्भिर् भक्तः पर्युपतिष्ठति
आचार्यस् तैत्तिरीयाणाम् अभिरूपश् च वेदवित् ॥
तस्य यानं च दासीश् च सौमित्रे संप्रदापय
कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥
सूतश् चित्ररथश् चार्यः सचिवः सुचिरोषितः
तोषयैनं महार्हैश् च रत्नैर् वस्त्रैर् धनैस् तथा ॥
शालिवाहसहस्रं च द्वे शते भद्रकांस् तथा
व्यञ्जनार्थं च सौमित्रे गोसहस्रम् उपाकुरु ॥
ततः स पुरुषव्याघ्रस् तद् धनं लक्ष्मणः स्वयम्
यथोक्तं ब्राह्मणेन्द्राणाम् अददाद् धनदो यथा ॥
अथाब्रवीद् बाष्पकलांस् तिष्ठतश् चोपजीविनः
सम्प्रदाय बहु द्रव्यम् एकैकस्योपजीविनः ॥
लक्ष्मणस्य च यद् वेश्म गृहं च यद् इदं मम
अशून्यं कार्यम् एकैकं यावदागमनं मम ॥
इत्य् उक्त्वा दुःखितं सर्वं जनं तम् उपजीविनम्
उवाचेदं धनाध्यक्षं धनम् आनीयताम् इति
ततो ऽस्य धनम् आजह्रुः सर्वम् एवोपजीविनः ॥
ततः स पुरुषव्याघ्रस् तद् धनं सहलक्ष्मणः
द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ऽभ्यदापयत् ॥
तत्रासीत् पिङ्गलो गार्ग्यस् त्रिजटो नाम वै द्विजः
आ पञ्चमायाः कक्ष्याया नैनं कश्चिद् अवारयत् ॥
स राजपुत्रम् आसाद्य त्रिजटो वाक्यम् अब्रवीत्
निर्धनो बहुपुत्रो ऽस्मि राजपुत्र महायशः
उञ्छवृत्तिर् वने नित्यं प्रत्यवेक्षस्व माम् इति ॥
तम् उवाच ततो रामः परिहाससमन्वितम्
गवां सहस्रम् अप्य् एकं न तु विश्राणितं मया
परिक्षिपसि दण्डेन यावत् तावद् अवाप्स्यसि ॥
स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम्
आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥
उवाच च ततो रामस् तं गार्ग्यम् अभिसान्त्वयन्
मन्युर् न खलु कर्तव्यः परिहासो ह्य् अयं मम ॥
ततः सभार्यस् त्रिजटो महामुनिर् गवाम् अनीकं प्रतिगृह्य मोदितः
यशोबलप्रीतिसुखोपबृंहिणीस् तद् आशिषः प्रत्यवदन् महात्मनः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0