भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.26

2.26.1

एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता
प्रसक्ताश्रुमुखी मन्दम् इदं वचनम् अब्रवीत् ॥

2.26.2

ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति
गुणान् इत्य् एव तान् विद्धि तव स्नेहपुरस्कृतान् ॥

2.26.3

त्वया च सह गन्तव्यं मया गुरुजनाज्ञया
त्वद्वियोगेन मे राम त्यक्तव्यम् इह जीवितम् ॥

2.26.4

न च मां त्वत्समीपस्थाम् अपि शक्नोति राघव
सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा ॥

2.26.5

पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्
कामम् एवंविधं राम त्वया मम विदर्शितम् ॥

2.26.6

अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥

2.26.7

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे
वनवासकृतोत्साहा नित्यम् एव महाबल ॥

2.26.8

आदेशो वनवासस्य प्राप्तव्यः स मया किल
सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा ॥

2.26.9

कृतादेशा भविष्यामि गमिष्यामि सह त्वया
कालश् चायं समुत्पन्नः सत्यवाग् भवतु द्विजः ॥

2.26.10

वनवासे हि जानामि दुःखानि बहुधा किल
प्राप्यन्ते नियतं वीर पुरुषैर् अकृतात्मभिः ॥

2.26.11

कन्यया च पितुर् गेहे वनवासः श्रुतो मया
भिक्षिण्याः साधुवृत्ताया मम मातुर् इहाग्रतः ॥

2.26.12

प्रसादितश् च वै पूर्वं त्वं वै बहुविधं प्रभो
गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥

2.26.13

कृतक्षणाहं भद्रं ते गमनं प्रति राघव
वनवासस्य शूरस्य चर्या हि मम रोचते ॥

2.26.14

शुद्धात्मन् प्रेमभावाद् धि भविष्यामि विकल्मषा
भर्तारम् अनुगच्छन्ती भर्ता हि मम दैवतम् ॥

2.26.15

प्रेत्यभावे ऽपि कल्याणः संगमो मे सह त्वया
श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥

2.26.16

इह लोके च पितृभिर् या स्त्री यस्य महामते
अद्भिर् दत्ता स्वधर्मेण प्रेत्यभावे ऽपि तस्य सा ॥

2.26.17

एवम् अस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्
नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ॥

2.26.18

भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः
नेतुम् अर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥

2.26.19

यदि मां दुःखिताम् एवं वनं नेतुं न चेच्छसि
विषम् अग्निं जलं वाहम् आस्थास्ये मृत्युकारणात् ॥

2.26.20

एवं बहुविधं तं सा याचते गमनं प्रति
नानुमेने महाबाहुस् तां नेतुं विजनं वनम् ॥

2.26.21

एवम् उक्ता तु सा चिन्तां मैथिली समुपागता
स्नापयन्तीव गाम् उष्णैर् अश्रुभिर् नयनच्युतैः ॥

2.26.22

चिन्तयन्तीं तथा तां तु निवर्तयितुम् आत्मवान्
क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्व् असान्त्वयत् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc