भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.27

2.27.1

सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा
वनवासनिमित्ताय भर्तारम् इदम् अब्रवीत् ॥

2.27.2

सा तम् उत्तमसंविग्ना सीता विपुलवक्षसम्
प्रणयाच् चाभिमानाच् च परिचिक्षेप राघवम् ॥

2.27.3

किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः
राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥

2.27.4

अनृतं बललोको ऽयम् अज्ञानाद् यद्धि वक्ष्यति
तेजो नास्ति परं रामे तपतीव दिवाकरे ॥

2.27.5

किं हि कृत्वा विषण्णस् त्वं कुतो वा भयम् अस्ति ते
यत् परित्यक्तुकामस् त्वं माम् अनन्यपरायणाम् ॥

2.27.6

द्युमत्सेनसुतं वीर सत्यवन्तम् अनुव्रताम्
सावित्रीम् इव मां विद्धि त्वम् आत्मवशवर्तिनीम् ॥

2.27.7

न त्व् अहं मनसाप्य् अन्यं द्रष्टास्मि त्वदृते ऽनघ
त्वया राघव गच्छेयं यथान्या कुलपांसनी ॥

2.27.8

स्वयं तु भार्यां कौमारीं चिरम् अध्युषितां सतीम्
शैलूष इव मां राम परेभ्यो दातुम् इच्छसि ॥

2.27.9

स माम् अनादाय वनं न त्वं प्रस्थातुम् अर्हसि
तपो वा यदि वारण्यं स्वर्गो वा स्यात् सह त्वया ॥

2.27.10

न च मे भविता तत्र कश्चित् पथि परिश्रमः
पृष्ठतस् तव गच्छन्त्या विहारशयनेष्व् अपि ॥

2.27.11

कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः
तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥

2.27.12

महावातसमुद्धूतं यन् माम् अवकरिष्यति
रजो रमण तन् मन्ये परार्ध्यम् इव चन्दनम् ॥

2.27.13

शाद्वलेषु यद् आसिष्ये वनान्ते वनगोचरा
कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः ॥

2.27.14

पत्त्रं मूलं फलं यत् त्वम् अल्पं वा यदि वा बहु
दास्यसि स्वयम् आहृत्य तन् मे ऽमृतरसोपमम् ॥

2.27.15

न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः
आर्तवान्य् उपभुञ्जाना पुष्पाणि च फलानि च ॥

2.27.16

न च तत्र गतः किंचिद् द्रष्टुम् अर्हसि विप्रियम्
मत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥

2.27.17

यस् त्वया सह स स्वर्गो निरयो यस् त्वया विना
इति जानन् परां प्रीतिं गच्छ राम मया सह ॥

2.27.18

अथ माम् एवम् अव्यग्रां वनं नैव नयिष्यसि
विषम् अद्यैव पास्यामि मा विशं द्विषतां वशम् ॥

2.27.19

पश्चाद् अपि हि दुःखेन मम नैवास्ति जीवितम्
उज्झितायास् त्वया नाथ तदैव मरणं वरम् ॥

2.27.20

इदं हि सहितुं शोकं मुहूर्तम् अपि नोत्सहे
किं पुनर् दशवर्षाणि त्रीणि चैकं च दुःखिता ॥

2.27.21

इति सा शोकसंतप्ता विलप्य करुणं बहु
चुक्रोश पतिम् आयस्ता भृशम् आलिङ्ग्य सस्वरम् ॥

2.27.22

सा विद्धा बहुभिर् वाक्यैर् दिग्धैर् इव गजाङ्गना
चिरसंनियतं बाष्पं मुमोचाग्निम् इवारणिः ॥

2.27.23

तस्याः स्फटिकसंकाशं वारि संतापसम्भवम्
नेत्राभ्यां परिसुस्राव पङ्कजाभ्याम् इवोदकम् ॥

2.27.24

तां परिष्वज्य बाहुभ्यां विसंज्ञाम् इव दुःखिताम्
उवाच वचनं रामः परिविश्वासयंस् तदा ॥

2.27.25

न देवि तव दुःखेन स्वर्गम् अप्य् अभिरोचये
न हि मे ऽस्ति भयं किंचित् स्वयम्भोर् इव सर्वतः ॥

2.27.26

तव सर्वम् अभिप्रायम् अविज्ञाय शुभानने
वासं न रोचये ऽरण्ये शक्तिमान् अपि रक्षणे ॥

2.27.27

यत् सृष्टासि मया सार्धं वनवासाय मैथिलि
न विहातुं मया शक्या कीर्तिर् आत्मवता यथा ॥

2.27.28

धर्मस् तु गजनासोरु सद्भिर् आचरितः पुरा
तं चाहम् अनुवर्ते ऽद्य यथा सूर्यं सुवर्चला ॥

2.27.29

एष धर्मस् तु सुश्रोणि पितुर् मातुश् च वश्यता
अतश् चाज्ञां व्यतिक्रम्य नाहं जीवितुम् उत्सहे ॥

2.27.30

स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः
तथा वर्तितुम् इच्छामि स हि धर्मः सनातनः
अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥

2.27.31

ब्राह्मणेभ्यश् च रत्नानि भिक्षुकेभ्यश् च भोजनम्
देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम् ॥

2.27.32

अनुकूलं तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः
क्षिप्रं प्रमुदिता देवी दातुम् एवोपचक्रमे ॥

2.27.33

ततः प्रहृष्टा परिपूर्णमानसा यशस्विनी भर्तुर् अवेक्ष्य भाषितम्
धनानि रत्नानि च दातुम् अङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc